SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मीतिकल्पतरुः । चण्डालयूनः प्रणयालुठते तस्य पादयोः । तदालोक्योत्तमं मत्वा शुनश्चण्डालपुत्रकम् । स्वजातिष्ठा वत्रे सा तमेव पतिमन्त्यजा ॥ १३ ॥ एवं कृतपदा दूरे पतन्ति स्वपदे जडाः । विधाय तद्धियं धीमान्स्वानुरूपं विचिन्तयेत् ॥ १४ ॥ इति सदाचारपालनाख्यं कुसुमम् । [ २८ ] अतीव कठिनं स्त्रीणां चरित्रं दुर्घटं तथा । याः कामैकरताः पितृमातृसंबन्धिनोऽपि च ॥ १ ॥ अवगण्य स्वयं यान्ति सृतिमंकावहां किल । तस्मात्स धन्यो लोकेऽस्मिन्यद्गृहेऽसौ सुशीलभाक् ॥ २ ॥ तथा च श्रूयतामेतां विचित्रामद्भुत कथाम् । घटकर्परनामानौ चोरवास्तां पुरे कचित् ॥ ३ ॥ तयोः स कर्परो जातु बहिर्न्यस्य घटं निशि । सन्धि भित्वा नृपसुतावासवेश्म प्रविष्टवान् ॥ ४ ॥ तत्र कोणस्थितं तं सा विनिद्रा राजकन्यका । दृष्ट्वैव संजातकामा सद्यः स्वैरमुपाह्वयत् ॥ ५ ॥ रत्वा च तेन साकं सा दत्वा चार्थे तमब्रवीत् । दास्याम्यन्यत्प्रभूतं ते पुनरेष्यसि चेदिति ॥ ६ ॥ ततो निर्गत्य वृत्तान्तमाख्यायार्थं समर्प्य च । व्यसृजत्प्राप्य राजार्थं घटं गेहूं स कर्परः ॥ ७ ॥ स्वयं तदैव तु पुनर्विवेशान्तःपुरं स तत् । आकृष्टः का[ २८ अ]मलोभाभ्यामपायः को हि पश्यति ॥ ८ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy