________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरू।
[२६] स्त्रियोऽतिविषमा गर्या भेतव्यं निपुणैस्ततः । उह्यन्ते हेलयैवाशु कुस्त्रीभिः सरलाशयाः ॥ १ ॥ सर्वथा च गृहे दास्यो भर्तव्याः कोमलाशयाः । न नाशिता हि का योषा दासीभिः पतिदेवताः ॥ २ ॥ अभून्मूर्खः पुमान्कश्चिद्भार्याभूतस्य सुव्रता । सा (२७)स्यैकदा तस्मिन्पत्यौ देशान्तरं गते ॥ ३ ॥ चालिताभूद्यथा तस्य कुलं नष्टमभत्किल । सा दत्तकार्यशिक्षा तामाप्तां कर्मकरीगृहे ॥ ४ ॥ ययावुपपतेगेहं निरर्गलसुखेच्छया । अयागतं तत्पत्तिं सा स्थितशिक्षाश्रुगद्गदम् ।। ५ ॥ कर्मकर्यवदद्भार्या मृता दग्धा च सा तव । इत्युक्त्वाऽसौ श्मशानं च नीत्वा तस्मायदर्शयत् ॥ ६ ॥ अस्थीन्यन्यश्चितास्थानि तान्यादाय रुदंश्च सः । कृतोदकोऽथ तीर्थेषु प्रक्षिप्यास्थी नितानि च ॥ ७ ॥ प्रावर्तत स भार्यायास्तस्याः श्राद्धविधौ जडः । सद्विप्र इत्युपानीतं कर्मकर्या तथैव च ॥ ८ ॥ तमेव भार्योपपतिं श्राद्धविप्रं चकारः सः । तेनोपपतिना साधं तद्भार्योपेत्य तत्र सा ॥९॥ उदारवेषा मुंक्त स्म मिष्टानं मासि मासि तत् । सतीधर्मप्रभावेण भार्या ते परलोकतः । पश्यागत्य स्वयं भुक्ते ब्राह्मणेन शुभा प्रभो ॥ १० ॥ इति कर्मकरी सा तमवोचत्तत्पतिं यदा । तदेव प्रतिपेदे तत्सर्व मूर्खशिरोमणिः ॥ ११ ॥ इति गृहदासीदुश्चरित्रकथनं नाम कुसुमम् ।
For Private and Personal Use Only