SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः । स तु नैवाब्रवीत्किश्चिद्वध्यमानोऽपि मूकवत् । विपर्यस्तेषु सर्वेषु श्रुण्वत्सु श्वशुरादिषु ॥ ३१ ॥ कोलाहलेन तस्यां च व्यतीतायां क्रमान्निशि । स निन्ये वणिजा तेन श्वशुरेण वणिक्सुतः । राजान्तिकं तया सार्धं भार्यया छिन्ननासया ॥ ३२ ॥ राजा च कृतविज्ञप्तिः स्वदारद्रोह्यसाविति । तस्यादिशद्वणिक्सूनोर्वधं न्यक्कृततद्वचाः ॥ ३३ ॥ ततो वध्यभुवं तस्मिन्नीयमाने सडिण्डिमम् । उपागम्य च चौरोऽसौ बभाषे राजपूरुषान् ॥ ३४ ॥ निष्कारणं न वध्योऽसौ यथावृत्तं हि वम्यहम् | संप्रापयत राजानं यावत्सर्वं वदाम्यदः || ३५ ॥ इस्यूचिवान्स नीतस्तैः राजा च वृताभयः । आमूलाद्रात्रिवृत्तं तचौरः सर्व न्यवेदयत् ॥ ३६ ॥ सोऽब्रवीच न चेद्देव मद्वाचि प्रत्ययस्तव । तत्सा नासा मुखे तस्य शवस्याद्यापि वीक्षते ॥ ३५ ॥ तच्छ्रुत्वा त्वा वीक्षितुं भृत्यान्प्रेष्य सत्यमवेत्य तत् । स राजा तं वणिक्पुत्रं मुक्त्वा बन्धननिग्रहात् ॥ ३८ ॥ तो व कर्णावपि छित्वा दुष्टां देशान्निरस्तवान् । तद्भार्यां श्वशुरं चास्य तं सर्वस्वमदण्डयत् ॥ ३९ ॥ चौरं च पुराध्यक्षं तुष्टश्चक्रे महीपतिः । एवं स्त्रियो भवन्तीह निसर्गविषमाः शठाः । न जावसुसमाश्वस्तमतिना भाव्यमंजसा ॥ ४० ॥ इति स्त्रीदुश्चरित्रकथनं नाम कुसुमम् । For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy