SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरू। ततः सा विह्वलोद्धान्ता हा हतास्मीति वादिनी । पपात भूमौ कृपणं विलपन्ती रुरोद च ॥१८॥ अवतार्याथ वृक्षात्तं गतासुं निजकामुकम् । उपवेश्यांगरागेण पुष्पैश्चालंचकार सा ।। १९ ॥ समालिङ्ग्य च निःशङ्क रागशोकान्धमानसा । उम्नमय्य मुखं यावत्तस्यार्ता परिचुम्बति ॥ २० ॥ तावत्स तस्याः सहसा निर्जीवः परपूरुषः । वेतालानुप्रविष्टः सन्दन्तैश्चिच्छेद नासिकाम् ॥ २१ ॥ तेन सा विह्वला तस्मात्सव्यथापसृताप्यहो । किंस्विज्जीवेदिति हता पुनरेत्य तमैक्षत ॥ २२॥ दृष्ट्वा च वीतवेतालं निश्चेष्टं मृतमेव तम् । सा भीता परिभीता च चचाल रुदती शनैः ॥ २३ ॥ तद्वच्छन्नः स्थितः सोऽथ चौरः सर्व व्यलोकयत् । भचिन्तयञ्च किमिदमेतया पापया कृतम् ॥ २४ ॥ भहो बताशयः स्त्रीणां भीषणो घनतामसः। अन्धप इवागाधः पाताय गहनः परम् ॥ २५ ॥ सदिदानी इयं किं नु कुर्यादिति विचिन्त्य सः । कौतुकारतश्चौरो भूयोऽप्यनुससार तम् ॥ २६ ॥ सापि गत्वा प्रविश्यैव तत्स्वप्नस्थितभर्तृकं । गृहं तदा वकं प्रोच्चैः प्ररुदन्त्येवमब्रवीत् ॥ २७ ॥ परित्रायध्वमेतेन दुष्टेन मम नासिका । छिन्ना निरपराधाया भर्तृरूपेण रक्षसा ॥ २८ ॥ श्रुत्वैतं मुहुराकन्दं तस्या सर्वे [ २६ब] ससंभ्रमम् । उदतिष्ठन्प्रबुध्यात्र पतिः परिजनः पिता ॥२९॥ एस्याथ पितरो दृष्ट्वा तामाद्रच्छिन्ननासिका । कुद्धास्तं बन्धयामासुर्भार्याद्रोहीति तस्पतितम् ॥३०॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy