SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरः। [२५ अ] सा पल्लीनिकटे चेह तत्तत्र व्रज सत्वरम् । ततः प्राप्स्यसि तां भार्या परथा मा मतिं कृथाः ॥ १० ॥ इत्युक्तस्तेन स रुदन्निन्दन्बुद्धिविपर्ययम् । जगाम भिल्लपल्ली ता भार्या तत्र ददर्श ताम् ॥ ११ ॥ साऽपि दृष्ट्वा तमभेत्य पापाद्भीता तमब्रवीत् । न मे दोषोऽहमानीता भिल्लेनेह भयादिति ॥ १२ ॥ आयाहि तत्र गच्छावो यावत्कश्चिन्न पश्यति । इति ब्रुवाणा रागान्धं तमुवाच पतिं च सा ॥ १३ ॥ तस्यागमनवेलेयं भिल्लस्याखेटगामिनः । भागल्य चानुधाव्यैव हन्यात्वा मां च वै ध्रुवम् ॥१४॥ तत्राविश्य गुहामेतां प्रच्छन्नस्तिष्ठ संप्रति । रात्रौ च हत्वा तं सुप्तं यास्यावो निर्भयावितः ॥१५॥ एवं तयोक्तः शठया प्रविश्यासीद्गुहां स ताम् । कोऽवकाशो विवेकस्य हृदि कामान्धचेतसः ॥१६॥ तथा कुस्त्रीगृहान्तःस्थमानीतं व्यसनेन तम् । भिल्लायादर्शयत्तस्मायागताय दिनात्यये ॥ १७ ॥ स च निष्कृत्य तं भिल्लः क्रूरकर्मा पराक्रमी । प्रातर्देव्युपहारार्थ बबन्ध सदृढं तरौ ॥१८॥ भुक्त्वा च पश्यतस्तस्य रात्रौ तद्भार्यया सह । सममासेव्य सुरतं सुखं सुष्वाप तद्युतः ॥ १९॥ तं दृष्ट्वा सुखमीर्षालुः स पुमास्तरुसंयतः । चण्डी शरणमभ्येत्य ययौ स्तुतिभिरर्चिता ॥२० । साविर्भूय वरं तस्मै तं ददौ येन तस्य सः । तत्खड्गेनैव भिल्लस्य स्रस्तबन्धोऽच्छिनच्छिरः॥२१॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy