SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। त्वमप्यक्षीणकोशश्रीमत्प्रसादाद्भविष्यसि ।। एवं दत्ते वरं वहिं ब्राह्मणः स व्यजिज्ञपत् ॥ १९॥ आविर्भूतोऽसि सहसा राज्ञः स्वेच्छाविहारिणः । न मे सविनयस्यापि किमेतद्भगवनिति ॥ २० ॥ ततोग्निवरदः प्राह नादास्यं दर्शनं यदि । अहोण्यदेव खशिरस्तीवसत्वो नृपो मयीति ॥ २१ ॥ इति राजधैर्यकथनं नाम कुसुमम् । [२४] विबुधैर्वनिता रक्ष्या साम्ना खलु न चेर्षया । चारित्रं वक्रमेतासां शङ्का साध्या न वै स्त्रियः ॥ १॥ नगरे कापि कोऽप्यासीदीर्षावान्पुरुषः किल । बभूव तस्य भार्या च वल्लभा रूपशालिनी ॥ २ ॥ अविश्वस्तो न तां जातु मुमोचैकिनीमसौ। तस्या हि शीलविभ्रंशं चित्रस्थेभ्यो हि शङ्कते ॥ ३ ॥ केनाप्यवश्यकार्येण कदाचित्स पुमानथ । सहैवादाय तां भार्या प्रतस्त्र विषयान्तरे ॥ ४॥ मार्गे सभिल्लामटवीमग्रे दृष्ट्वा स तद्भयात् । स्थापयित्वा गृहे प्राम्ये वृद्धविप्रस्य तां ययौ । ५ ॥ तत्र स्थित्वा च सा दृष्ट्वा भिल्लास्तेनागतान्यथा । एकेन भिल्लयूनैव सह दृष्ट्वा ययौ पुनः ॥ ६ ॥ तेन युक्ता च तत्पल्ली यथाकामं चचार सा। न कान्तेर्षालुम्पत्तिका' भग्नसेतुरिवापगा ॥ ७ ॥ तावत्स तत्पतिः कृत्वा कार्यमागत्य तं द्विजम् । ग्राम्यं ययाचे तां भार्या सोऽपि विप्रो जगाद तम् ॥ ८ ॥ न जानेऽहं क याताऽसौ जान एतावदेव तु । भिल्ला इहागता आसंस्तैः सा नीता भविष्यति ॥ ९॥ Corrupt, 1 For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy