________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
विप्रोऽहं नागशर्माख्यो होमे च शृणु मे फलम् । अनेन बिल्वहोमेन प्रसीदति यदानलः ॥ ७ ॥ हिरण्मयानि पिण्डानि तदा निर्यान्ति कुण्डतः । ततोऽग्निः प्रकटीभूय वरं साक्षात्प्रयच्छति ।। ८ ॥ वर्तते मम भूयांसं कालो बिल्वानि जुह्वतः । मन्दपुण्यस्य नाद्यापि तुष्यत्येव ममानलः ॥ ९ ॥ इत्युक्ते तेन राजां तं धीरसत्त्वोऽभ्यभाषत ।। तर्हि मे देहि बिल्वं तमेकं यावज्जुहोमि तम् ॥ १० ॥ प्रसादयामि च ब्रह्मन्ननेनैव' तवानलम् । कथं प्रसादयसि तं वह्निमप्रयतोऽशुचिः ॥ ११ ॥ यो ममैवं वनस्थस्य पूतस्यापि न तुष्यति । इत्युक्तस्तेन विप्रेण राजा तमवदत्पुनः ॥ १२ ॥ मैवं प्रयच्छ मे बिल्वं पश्याश्चर्य क्षणादिति । ततः स राज्ञे विप्रोऽसौ ददौ बिल्वं सकौतुकः ॥ १३ ॥ राजाचाह तदा तत्र दृढसत्त्वेन चेतसा । हुतेनानेन बिल्वेन न चेत्तुष्यसि मच्छिरः । त्वय्यग्ने संजुहोमीति ध्यात्वा चास्मिञ्जहाव तम् ॥ १४ ॥ आविरासीच्च स प्रार्चिः कुण्डाद्विल्वं हिरण्मयं । स्वयमादाय तत्तस्य फलं सत्त्वतरोरिव ॥ १५ ॥ जगाद च स[२४ ब]साक्षात्तं जातवेदा महीपतिम् । सत्त्वेनानेन तुष्टोऽस्मि तगृहाण वरं मम् ॥ १६ ॥ तच्छ्रुत्वा स महासत्त्वो राजा तं प्रणतोऽब्रवत् ि । को मान्यो' वरो देहि द्विजायास्मै यथेप्सितम् ॥ १७॥ इति राज्ञो वचः श्रुत्वा जगादाग्निः समिद्धमाः ।
राजन्महाधनपतिर्ब्राह्मणोऽयं मविष्यति ॥ १८॥ Corrupt.
1
For Private and Personal Use Only