SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नौतिकल्पतरुः। अथ सर्वोपरिगतां प्रज्ञामादाय भूपतिः । शशास च तटे कृत्वा वाम्यौ द्वे एष संभ्रमात् ॥९॥ पात्यो वारिणि वीक्ष्यन्त्योर्बलादिति तथागते । विजातं जननीकुक्षिपालनातिशयादनु ॥१०॥ आच्छिद्य दामतत्रैव तद्रक्षार्थ पपात ह । परं तटगतान्याऽसौ वीक्षमाणावतिष्ठते ॥ ११ ॥ इति निश्चयवन्तो हि राजानो नैव जातु[२४]चित् । स्खलन्ते शुद्धवंशोत्था बलमेषां हि दैवजम् ॥ १२ ॥ इति राजबुद्धिबलकथनं नाम कुसुमम् । [२३] अत्रैव प्रसङ्गेन सत्त्वप्रशंसा । तीक्ष्णसत्त्वस्य न चिराद्भवन्तीहैव सिद्धयः । मन्दसत्त्वस्य तु चिरात्तथा चेदं निदृश्यताम् ॥ १॥ अस्ति पाटलिपुत्राख्यं भुवोऽलंकरणं पुरम् । तत्र विक्रमतुङ्गाख्यो राजाभूत् सत्यवान्पुरा ॥ २ ॥ योऽभूत्पराङ्मुखो दाने नार्थिनां न युधि द्विषाम् । स जातु मृगयाहेतोः प्रविष्टो नृपतिर्वनम् ॥ ३ ॥ बिल्वैर्होम विदधतं तत्र ब्राह्मणमैक्षत। . तं दृष्ट्वा प्रष्टुकामोऽपि परिहत्य तदन्तिकम् ॥ ४॥ ययौ स दूरं मृगयारसेन सबलस्ततः । आवृत्तश्च तथैवान दृष्ट्वा होमपरं द्विजम् ॥ ५॥ उपेत्य नत्वा पप्रच्छ नाम होमफलं च सः । - ततः स ब्राह्मणो भूपं कृताशीस्तमभाषत ॥ ६ ॥ 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy