________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[१९] असाध्यं साधयन्त्येव मतिमन्तो मनीषिणः । उपायेन तथा चात्र वणिक्पुत्रकथोच्यते ॥१॥ अभूत्कोऽपि वणिक्पुत्रो दैवादेकतुलः किल । पित्रात्स तुलां न्यस्य कस्यचिद्वाणिजो गृहे । देशान्तराण्यतीत्याथ प्राप्तस्तस्मादयाचत ॥२॥ तुला जग्धाखुनेत्यस्मै स प्राहामित्यसौ च तम् । असौ तुलानिक्षेपकस्तं तुलानिहविनम् ॥३॥ (आमित्याह एवमेतदाखुनासौ भक्षिता भवेदिति ।) देशांतरागतायाथ देहि मे भोजनं सखे। इत्यस्मै याचमानाय स्वीचक्रे भुज्यतामिति ॥४॥ स्नानार्थ मितस्तावन्मे मार्गः को दर्यतामिति । उक्त्वाऽमुं च प्रदासौ तत्पुत्रं मार्गदर्शकम् ॥५॥ कृत्वा मार्गे गृहे न्यस्य स्वस्य स्नास्वागतोऽप्रतः। ययाचे भोजनं भुक्ष्व [२१ ब] यथेच्छं चेति सोऽब्रवीत् ॥६॥ उपस्थिते तत्र कासौ मे पुत्र इत्यभिभाषिणं । तमसौ मार्ग आकृष्य श्येनोऽगादिवमुद्गतः ॥७॥ इत्युक्त्वा भोजनं देहीत्युवाच पुनरेव सः । निशम्य चान्तर्दग्धोऽसौ विक्रुश्य वह 'पुत्रकम् । न्यायशालां द्रुतं गत्वा नीनयदेवमग्रतः ॥ ८॥ पुत्रोऽस्य केति पृष्टोऽसौ तथोवाच हसन्निव । किमिदं मदिरामत्त इव वक्षि नृपास्पदे। सत्यं श्येनः कथं तत्र नार्मकं नयते बलम् ॥९॥ यत्र देशे तुला लौही सहस्रपलसंमिता।
आखुना भक्षिता तत्र मन्ये श्येनो द्विपं नयेत् ॥१०॥ Corrupt.
1
For Private and Personal Use Only