________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मतिकल्पतरुः।
अवध्या ब्राह्मणा गाँवो स्त्रियो बालाश्च ज्ञातयः । येषामन्नानि भुञ्जीत ये च स्युः शरणागताः ॥१६४ ॥ न मनुष्यगुणः कश्चिदन्यो धनवतामपि ।
अनातुरत्वाद्रं ते मृतकल्पा हि रोगिणः ॥ १६५ ॥ अनातुरत्वादिति ल्यल्लापे पञ्चमी । अनातुरत्वमासाद्यापि धनवन्तो मृतकल्पा रोगिणः इति । अथ प्रसङ्गेन सद्धृत्यलक्षणान्याह विदुरः
सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य तु तथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १६६ ॥ यो हि धर्म व्यपाश्रित्य भर्तुहित्वा प्रियाप्रिये । अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ १६७ ।। त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥ १६८ ॥ आपदर्थ धनं रक्ष्यं दारा रक्ष्या धनैरपि ।
आत्मा तु सर्वतो रक्ष्यो दारैरपि धनैरपि ॥ १६९ ॥ इति पण्डितलक्षणे संकीर्णगुणकथने आर्थिकपण्डितलक्षणं
नाम नवमं कुसुमम् ।
[१०] बलादेव जितक्रोधो न दुःखस्यास्पदं भवेत् । कृतप्रज्ञश्च विपदा जातुचिन्नैव बाध्यते ॥१॥ तिरश्चामपि हि प्रज्ञा हिताय न पराक्रमः । यत्कार्यस्य न योऽभिज्ञः स तत्कुर्वन्विनश्यति ॥२॥ ..
For Private and Personal Use Only