SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भौतिकल्पता। न वै मिन्ना जातु चरन्ति धर्म . न वै सुखं प्राप्नुवन्तीह भिन्नाः । न वै भिन्ना गौरवं चाश्रयन्ति न वै भिन्नाः प्रशमं रोचयन्ति ॥ १५७ ॥ न वै तेषां स्वदते पथ्यमुक्त योगक्षेमं कल्पते नोत तेषाम् । भिन्नानां वै मनुजेन्द्र परायणं । __न विद्यते किंचिदन्यद्विनाशनात् ॥ १५८ ॥ पथ्यं हितमुक्तं न स्वदते न रोचते । संभाव्यं गोषु च क्षीरं संभाव्यं ब्राह्मणे तपः । संभाव्यं स्त्रीषु चापल्यं संभाव्यं ज्ञातितो भयम् ॥ १५९ ॥ धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च । । धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥ १६० ॥ तस्मात् ज्ञातिभ्यो यथोचितं स्वभागो देय एवेति तत्त्वम् । व्यपेतान्यसंहतानि, मिलिताश्च किंचिद्भेददर्शनाज्वलितहृदया भवन्तीति। ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च । वृक्षादिव फलं पक्कं धृतराष्ट्र पतन्ति ते ॥ १६१ ॥ न जातु बल्यहमित्येक' एव सुखं [ १८ अ ] चरामि किं ज्ञातिभिरिति मन्तव्यं यतः - महानप्येकजो वृक्षो बलमन्सुप्रतिष्ठितः । प्रसह्य एव वातेन -शाखास्कन्धान्विमर्दितुम् ॥ १६२ ॥ अथ ये सहिता वृक्षाः संघशः सुप्रतिष्ठिताः। तेऽपि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात् ॥ १६३ ॥ 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy