SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मीतिकरुपतक। यन्नष्टं तच्छोकेनानवाप्यं केवलं शरीरमुपतप्यते । पुनर्नरो म्रियते जायते च पुनर्नरो वर्धते हीयते पुनः । पुनर्नरो याचति याच्यते च पुनर्नरः शोचति शोच्यते च ॥ १५० ॥ सुखं च दुःखं च भयाभयौ च . ___लाभालाभौ मरणं जीवितं च पर्यायशः सर्वमिह स्पृशन्ति तस्माद्वीरो नैव शोचेन्न हृष्येत् ॥ १५१॥ चलानि हीमानि षडिन्द्रिया[१७ ब]णि तेषां यद्यद्वर्धते यत्र यत्र । ततस्ततः स्रवते बुद्धिरस्य छिद्रोदकुम्भादिव नित्यमम्भः ॥ १५२ ॥ अत्रैव प्रसङ्गान्मोक्षसाधननिरूपणम् । बुद्धया भयं प्रणुदति तपसा विन्दते महत् । गुरुशुश्रूषया ज्ञानं शान्ति त्यागेन विन्दति ॥ १५३ ॥ अनाश्रिता वेदपुण्यं दानपुण्यामनाश्रिताः । रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥ १५४ ॥ स्वधीतस्य सुबुद्धस्य सुकृतस्य च कर्मणः।' तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ।। १५५ ॥ भवतु मोक्षसाधनान्वेषणं परमपाण्डित्यं केचिदेवात्र पात्रं व्यवहारिणे पुनः पाण्डित्यमेतत् यत्सर्वथा ज्ञातिभेदो न कर्तव्य इत्याशयेन विदुरः प्रस्तावयति। स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रा लभन्ते । न स्त्रीषु राजन् रतिमामुवन्ति न मागधैः स्तूयमाना न सूतैः ॥ १५६ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy