SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मीतिकल्पतरुः। एवं युक्ता भारसंहा भवन्ति महाकुलीना न तथान्ये मनुष्याः ॥ १४० ॥ अत्रैव प्रसङ्गान्मित्रनिरूपणम् । न तन्मित्रं यस्य कोपाद्विभेति यद्वा मित्रं शङ्कते नोपर्य। यस्मिन्मित्रे पितरीवाश्वसीत तद्वै मित्रं संगतानीतराणि ॥ १४१॥ यस्य चेतसि संबन्धो मित्रभावावेन वर्तते । स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् ॥ १४२ ॥ चलचित्तस्य वै पुंसो वृद्धाननुपसेविनः । परिप्लवमेतन्नित्यमध्रुवो मित्रसंग्रहः ॥ १४३ ॥ चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् । अर्थाः समतिवर्तन्ते हंसाः शुष्कसरो यथा ॥ १४४ ॥ अकस्मादथ कुप्यन्ति प्रसीदन्त्यनिमित्ततः । शीलमेततसाधूनां मन्त्रं पारिप्लवं यथा ॥ १४५ ॥ सस्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये । तान्मृतानपि क्रव्यादाः कृतघ्नानोपभुञ्जते ॥ १४६ ॥ अर्थयेदेव मित्राणि सति वासति वा धने। .. योऽनर्थः सन्विजानाति मित्राणां सारफल्गुताम् ॥ १४७ ॥ अनर्थो धनप्रयोजनः मित्राणां सारफल्गुता विजानाति स सन्साधुरित्यर्थः । संतापाश्यते रूपं संतापादश्यते बलम् । संतापादश्यते ज्ञानं संतापाव्याधिरेवते ॥ १४८ ॥ नष्टस्य परिदेवनाभावः पाण्डित्यमित्यर्थः । अनवाप्यं च शोकेन शरीरमुपतप्यते । मित्राणि प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥ १४९ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy