________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकरूपता
प्रसादो ना मिलत्वम्' । अपचयेऽपि च त्यक्तानृताः।
अनिज्यया विवाहैश्च वेदस्योत्सादनेन च ।
कुलान्यकुलता यान्ति धर्मस्योत्सादनेन च ॥ १३३ ॥ तस्मान्न जातिः प्रधानं वृत्तमेव प्रधानमित्यर्थः ।
ब्राह्मणानां परिभवात्परिवादाच्च भारत । कुलान्यकुलता यान्ति न्यासापहरणेन च ॥ १३४ ॥ कुलानि समवेतानि योन्या पुरुषतोऽन्यतः ।
कुलसंख्या न गच्छन्ति यानि हीनानि वृत्ततः ॥ १३५ ॥ अन्यतः पुरुषतोऽन्येन पुरुषेण, योन्या विवाहादिसंबन्धेन ।
वृत्ततस्त्वविहीनानि कुलान्यल्पधनानि च ।
कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः ॥ १३६ ॥ कर्षन्ति प्रसारयन्ति ।
मा नः कुले वैरकृदस्तुकश्चि
द्राजापथ्यो न परस्वापहारी । मित्रद्रोही नैष्कृतिकोऽनृती वा
पूर्वाशी यः पितृदेवातिथिभ्यः ॥ १३७ ॥ य श्चनो ब्राह्मणान्हन्यायश्च नो ब्राह्मणान्द्विषेत् ।
नरो न समिति गच्छेद्यश्च नो निर्वपेक्षितिम् ॥१३८॥ यश्व क्षितिमुपवेशनार्थ न निर्वपेन्न दद्यात् स समिति न गच्छेदसम्यो:सावित्यर्थः।
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ॥ १३९ ॥ सूक्ष्मोतिभारं नृपतेः स्यन्द[१७]नो वै
सोढुं शक्को न तथान्ये महीजाः ।
1
Corrupt.
For Private and Personal Use Only