SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरः। '४१ न जीयते नोत जिगीषतेऽन्या न वैरकृञ्चाप्रतिघातकश्च । निन्दाप्रशंसासु समस्वभावो न शोचते दृष्यति चैव नायम् ॥ १२७ ॥ जीवते कामादिभिः । भावमिच्छति सर्वस्य नाभावे कुरुते मतिम् । सत्यवादी मृदुर्दान्तः सततं यः स पूरुषः ॥ १२८ ॥ उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् । अधमान्नैव सेवेत यदीच्छेच्छेयमात्मनः ॥ १२९ ॥ प्राप्नोति वै वित्तमसद्बलेन . नित्योत्थानास्प्रज्ञया पौरुषेण । न वेव सम्यग्लभते प्रशंसा न वृत्तिमामोति महाकुलानाम् ॥ १३० ॥ असदलेन घुतादिबलेन, प्रज्ञयार्थमानपरया, नित्योत्थानान्नित्योद्वेगात्, तथा च महाकुलानां वृत्तिमाचरणं, आङ् साकल्येनामोति । [१६ ब ] नीचाचारोऽसावियर्थः । पण्डितप्रसङ्गेन महाकुलान्यप्याह विदुरः । तपो दमो ब्रह्मवित्तं वितानाः ___पुण्यो विवाहः सतां वै प्रदानम् । यैवेवैते सप्तगुणा भवन्ति सम्यग्वृत्तास्तानि महाकुलानि ॥ १३१ ॥ सम्यग्वृत्ता पुरुषा यत्रेति । तेषां न वृत्तं व्यथते कदाचित् वृत्तप्रसादेन चरन्ति धर्मम् । ये कीर्तिमिच्छन्ति कुळे विशिष्ट त्यक्तानृतास्तानि महाकुलानि ॥ १३२ ।। For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy