SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५. नीतिकल्पतरः नाक्रोशी स्यानावमानी परस्य मित्रद्रोही नातिनीचोपसेवी । न चाभिमानी न च हीनवृत्तो रूक्षां वाचं रुशती वर्जयेत ॥ १२० ॥ [१६ अ ] मर्माण्यस्थीनि हृदयं तथासू घोरा वाचो निर्दहन्तीव पुंसाम् । तस्माद्वाचं रुशती तीक्ष्णरूपां धर्मारामो नित्यशः वर्जयेत ।। १२१ ।। अरुन्तुदं परुषं तीक्ष्णवाचं ____ वाक्कण्टकैर्वितुदन्तं मनुष्यान् । विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निर्ऋतिं वहन्तम् ॥ १२२ ॥ अतिशयेनालक्ष्मीवानलक्ष्मीकतमः । वादं तु यत्र प्रवदेन वादये. नातियोतः प्रतिहन्यान्न घातयेत् । विहन्तुकामस्य न पापमिच्छे तस्मै देवाः स्पृहयन्त्यागताय ॥ १२३ ॥ अव्याहृतं व्याहृताच्छ्यमाहुः ____ सत्यं वदेव्याहृतं तद् द्वितीयम् । प्रियं वदेव्याहृतं तत्तृतीयं धर्म्य वदेद व्याहृतं तच्चतुर्थम् ॥ १२४ ॥ व्याहतादविचारितसत्यासत्यभावात् । यादशैः सन्निविशते यादृशं चोपसेवते । यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ १२५ ॥ यतो यतो निवर्तते ततस्ततो विमुच्यते। निवर्तनाच सर्वतो न वेचि दुःखमण्वपि ॥ १२६ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy