________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः |
दिवसेनैव तत्कुर्याद्येन वर्ष सुखं वसेत् । पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् । यावज्जीवं च तत्कृर्यायेन प्रेत्य सुखं स्वपेत् ॥ १११ ॥ जीर्णमन्नं प्रशंसेत भार्यां च गतयौवनाम् । शूरं विगतसंग्राममतिपारं मनस्विनम् ॥ ११२ ॥ मनस्विनं तत्वज्ञं, अतिपारगतीत संसारम्, अन्यथान्तर एव विघ्नसंभवात् । धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते ।
असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ ११३ ॥ छिद्रमधर्मरूपम्, अन्यदवदीर्यते छिन्द्रान्तरं जायते ।
गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् । इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ।। ११४ ॥ ऋषीणां च नदीनां च कुलानां च महात्मनाम् । प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥ ११५ ॥ उत्पत्तिः प्रभवोऽनधिगन्तव्योऽधिगन्तुमशक्यः ।
द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी । क्षत्रियः स्वर्गभाप्राजंश्विरं पालयते महीम् ॥ ११६ ॥ सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ ११७ ॥ सुवर्णमेव या पुष्यतीति सुवर्णपुष्पा ।
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि तानि वै ।
तानि सन्धा जघन्यानि तानि प्रत्यवराणि च ॥ ११८ ॥
बुद्धिव्यापारमात्रेण कृतानि कर्मणि श्रेष्ठानीत्यादि, सन्धा पणबंधः प्रत्यवराण्यतिनीचानि । हंसगीतायामाह विदुरः
आक्रुश्यमानं ना क्रुश्येन्मन्युरेव तितिक्षतः ।
आक्रुष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ ११९ ॥
For Private and Personal Use Only
३५