________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरः।
इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा। अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥ १०२॥ तत्र पूर्वो चतुर्वर्गो दम्भार्थमपि सेव्यते ।
उत्तरस्तु चतुर्वर्गो नामहात्मसु तिष्ठति ॥ १०३ ॥ असत्यपि सत्यादौ दम्भार्थमपि यज्ञादि सम्भवात् ।
न सा सभा यत्र न सन्ति वृद्धा
न ते वृद्धा ये न चरन्ति धर्मम् । नासौ धर्मो यत्र न सत्यमस्ति
न तत्सत्यं यच्छलेनाभ्युपेतम् ॥ १०४ ॥ सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् ।
शौर्य च चित्रभाष्यं च दशसंसर्गयोनयः ॥ १०५॥ रूपं शुचिविषयता, एते दशसंसर्गयोनयः एतद्युक्तैः संसर्गो विधेयः इत्यर्थः । 'स्वर्गयोनयः' इति पाठे स्वर्गागतचिहानि ।
पापं कुर्वन्पापकीर्तिः पापमेवाश्नुते फलम् । पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यमेवाश्नुते फलम् ॥ १०६ ॥ पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः । वृद्धप्रज्ञः पुण्यमेव क्षिप्रमारभते नरः ॥ १०७ ॥ असूयको दन्दशूको निष्ठुरो वैरकृन्नरः ।
स कृच्छं महदाप्नोति नचिरात्पापमाचरन् ॥ १०८ ॥ दन्दशूकोऽरुन्तुदः ।
अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा ।
अकृच्छ्रे महदानोति सर्वत्र च विरोचते ॥ १०९ ॥ [१५ ब ] अकृच्छ्रे सुखम् ।।
प्रज्ञामेवागमयति प्राज्ञेभ्यो यः स पण्डितः । प्राज्ञो ह्यवाप्य धर्मार्थों शक्नोति मुखमेधितुम् ॥ ११० ॥
For Private and Personal Use Only