________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भौतिकल्पतरः। मानाग्निहोत्रमुतमानमौनं मानेनाधीतमुत मानयज्ञः ।
एतानि चत्वार्यभयंकराणि भयं प्रयच्छन्त्ययथाकृतानि ॥९५॥ मानं कालः, अयथाकृतान्यकालकृतानि ।
तृणोल्कया ज्ञायते जातरूपं.
__ युगे भद्रो व्यवहारे च साधुः । शूरोभयेष्वर्थकृच्छेषु धीरः
कृच्छ्राखापत्सु सुहृदश्चारयश्च ॥ ९६ ॥ तृणोल्केव तृणोल्कानि कषरेखा, युगे लांगलवाहकाष्ठे, भद्रो वृक्षः ।
जरा रूपं हरति धैर्यमाशा ___ मृत्युः प्राणान्धर्मचर्यामसूया । क्रोधः श्रियं शीलमनार्यसेवा ।
हियं कामः सर्वमेवाभिमानः ॥ ९७ ॥ श्री/धर्मात्प्रभवति मङ्गल्यात्संप्रवर्तते ।
दाक्ष्याच्च कुरुते मूलं संयमा प्रतितिष्ठति ॥ ९८ ॥ दाक्ष्यं शीघ्रकारित्वं, संयमो व्यसनत्यागः, प्रतितिष्ठति प्रतिसंहृताप्यन्येन बलादायाति । [१५] अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमःशमश्च ।
पराक्रमश्च बहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥ ९९।। कौल्यं कुलाचारः।
- एतान्गुणांस्तात महानुभावानेको गुणः संश्रयते प्रसह्य ।
राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणानेष गुणो विभाति ॥१०॥ एष राजसत्कारः तस्माद्राजव्यवहारोऽतिविषम इत्यर्थः ।
अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि ।
चत्वार्येषमन्ववेतानि सद्भिश्चत्वार्यषामन्ववयन्ति सन्तः ॥ १०१॥ अन्ववेतानि सत्संगल्या प्राप्तानि भवन्ति दमादिचतुष्टयं तु सन्तोऽनुगच्छन्ति एतदनुसरणेन सत्त्वं भवतीत्यर्थः ।
For Private and Personal Use Only