________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
( यथा मत्स्यौ जालमाकृष्य गच्छतः )
समवेक्ष्ह संभारान्धर्मार्थौ योऽधिगच्छति । स वै संभृतसंभारः सततं सुखमेधते ॥ ७५ ॥
संभारान्साधनानि ।
यः पञ्चाभ्यन्तरान्शत्रूनविजित्य मनःक्षयान् । जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् ॥ ७६ ॥ मनःक्षयान् मत्याश्रितान् ।
Acharya Shri Kailassagarsuri Gyanmandir
दृश्यन्ते हि दुरात्मानो बध्यमानाः स्वकर्मभिः । इन्द्रियाणामनीशत्वाद्राजानश्चित्तविभ्रमैः ॥ ७७ ॥
असंत्यागात्पापकृतामपापां
स्तुल्योदण्डः स्पृशते मिश्रभावात् । शुष्केणाई दाते मिश्रभावा
तस्मात्पापैः ः सह संधिं न कुर्यात् ॥ ७८ ॥
दुष्टसंगत्या निर्दोषाणामपि मस्तके दण्डः पततीत्यर्थः । निजानुत्पततः शत्रून्पञ्चपञ्चप्रयोजनान् ।
यो मोहान्न निगृह्णाति तमापद्रसते नरम् ॥ ७९ ॥ अनसूयार्जवं शौचं संतोषो नाभिमानिता । दम्भः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥ ८० ॥ आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता ।
वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ।। ८१ ॥ वाग्गुप्ताऽवाच्यसंबन्धाद्दानं च गुप्तम् ।
आक्रोशपरिहासाभ्यां विहसन्त्यबुधा बुधम् । वक्ता पापमुपाधत्ते क्षममाणो विमुच्यते ॥ ८२ ॥ हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् । शुश्रूषा तु बरुं स्त्रीणां ह्यबलानां क्षमा बलम् ॥ ८३ ॥
For Private and Personal Use Only
በ