________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मौतिकल्पतः।
पञ्चवर्गेण बाह्येन्द्रियैः, सहजेन शरीरेण सहोत्पत्तेन, आत्महारिणा मनःक्षोभकारकेण ।
अविजित्य य आत्मानममात्यान्विजिगीषते । अमित्रान्वाजितामात्यः सोऽवशः परिहीयते ॥ ६५ ॥ आत्मानमेव प्रथमं देशरूपेण यो जयेत् ।
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥६६॥ देशं देहरूपं मनः।
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिणम् ।
परीक्ष्यकारिणं धीरमत्यन्तं श्रीनिषेवते ॥ ६७ ॥ विकारिणं शत्रूणाम् ।
रथः शरीरं पुरुषस्य सर्वमात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः । तैरप्रमत्तः कुशली सदाश्चैर्दान्तैः सुखं याति रथीव धीरः ॥६८॥ एतानि प्रगृहीतानि व्यापादयितुमप्यलम् । अयानाही इवादान्ता हयाः पथिषु सारथीम् ॥ ६९ ॥ अनर्थमर्थतः पश्यन्नर्थ चैवाप्यनर्थतः ।
इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ॥ ७० ॥ अनर्थ विषयासक्तिः, अर्थः परमार्थः ।
धर्मार्थों यः परित्यज्य स्यादिन्द्रियवशानुगः । श्रीप्राणधनदारेभ्यः क्षिप्रं स परिहीयते ॥ ७१॥ अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः । इन्द्रियाणामनैश्वर्यादैश्वर्याश्यते हि सः ॥ ७२ ॥ आत्मानमात्मनान्विच्छेन्मनोबुद्धीन्द्रियैर्युतः । मात्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ७३ ॥ क्षुद्राक्षेणेव जालेन कषावपिहितावुरु । [१४] कामश्च राजन् क्रोधश्च ती प्रमत्तं विकृष्यतः ॥ ७ ॥
For Private and Personal Use Only