________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरः। विद्यामदो धनमदस्तृतीयो जातिसमदः । मदा एते विलिप्तानामेतदेव सतां दमाः॥५५॥ जिता सभा वस्त्रवता सधनो गोमता जितः ।
अध्वा जितो यानवता सर्व शीलवता जितम् ॥५६॥ शीलं रक्षणीयमिति प्रकृतमन्यदृष्टान्तत्वेन ज्ञेयम् ।
शीलं प्रधानं पुरुषे तयस्येह विनश्यति । न तस्य जीवितेनार्थो न धनेन न तु बन्धुना ॥५७ ।। आढयानां मांसपरमं मध्यानां गोरसोत्तरम् । . तोयोत्तरं दरिद्राणां भोजनं भरतर्षभ ।। ५८ ॥ संपन्नतरमेवान्नं दरिद्राः भुञ्जते सदा।।
क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥ ५९ ॥ संपन्नतरं स्वादुतरं मिष्टमित्यर्थः ।
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते । • दरिद्राणां हि राजेन्द्र त्वपि काष्टं हि जीर्यते ॥ ६ ॥
अवृत्तिभयमन्त्यानां मध्यानां मरणाद्भयम् । उत्तमानां तु सत्त्वानामवमानात्परं भयम् ॥ ६१ ॥ [१३ब ] ऐश्वर्यमदपापिष्ठाः सदा पानमदादयः ।
ऐश्वर्यमदमत्तो हि नापतित्वा विमाद्यति ॥ ६२ ॥ ऐश्वर्यमदपापिष्ठो निन्दिततरो येभ्यो मदेभ्य ऐश्वर्यमद एव पापिष्ठः पतनकारणं येषां ते । तथा
इन्द्रियैरिन्द्रियार्थेषु वर्तमानरनिग्रहैः ।
तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥ ६३॥ प्रहाक्रमणं नक्षत्रतापः स च तेषु जाताना पीडा ।
यो जितः पञ्चवर्गेण सहजेनात्महारिणा । आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् ॥ ६४ ॥
For Private and Personal Use Only