________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः ।
पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा । वायूरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥ ३८ ॥ धर्ममाचरतो राज्ञः सद्भिश्चरितमात्मनः । वसुदा व संपूर्ण वर्धयेद्भूमिवर्धिनी ॥ ३९ ॥ अथ सन्त्यजतो धर्ममधर्म चानुतिष्ठतः । प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा ॥ ४० ॥ य एव यत्नः कुरुते परराष्ट्रावमर्दने । स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने ॥ ४१ ॥ धर्मेण राष्ट्रं विन्देत धर्मेण प्रतिपालयेत् । धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥ ४२ ॥ अप्युन्मत्तात्प्रलपतो बालाश्च परिसर्पतः ।
सर्वतः सारमादध्यादश्मभ्यः इव काञ्चनम् ॥ ४३ ॥ परिसर्पतोऽस्थिरत्वात्सर्वतो धावतेव ।
अव्याकृतानि सुधियां सुकृतानि ततस्ततः । संचिन्वन्धरि आसीत शिलाहारी शिलं यथा ॥ ४४ ॥ कणिकाधर्जनं शिल इति ।
गन्धेन गावः पश्यन्ति शास्त्रैः पश्यन्ति पण्डिताः । चारैः पश्यन्ति राजानश्चक्षुर्म्यामितरे जनाः ॥ ४५ ॥ भूयांसं लभते क्लेशं या गौर्भवति दुर्दहा । अथवा सुदुद्दाभावं नैवं तां विनियुज्यते ॥ ४६ ॥ सुशीलः स्यादित्यर्थः ।
यदतप्तं प्रणमति न तत्संतापमर्हति ।
यदा स्वयं नतं दारू न तत्संनामयन्त्यपि ॥ ४७ ॥ एतयोपमया धीरः सन्नमेत बलीयसे ।
इन्द्राय स प्रणमते नमते यो बलीयसे ॥ ४८ ॥
For Private and Personal Use Only
३१