________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'नीतिकल्पतरुः।
यच्छक्यं ग्रसितुं प्रासं प्रस्तं परिणमेच्च यत् । हितं च परिणामायत्तदा भूमिमिच्छता ॥२७॥ वनस्पतेरपक्कानि फलानि प्रचिनोति यः। स नातोति रसं तेभ्यो बीजं चास्य विनश्यति ॥२८॥ यस्तु पकमुपादत्ते काले परिणतं फलं । फलादसं स भजते बीजाचैव फलं पुनः ॥२९॥ यथा मधु समाधत्ते रक्षन्पुष्पाणि षट्पदः । तद्वदर्थान्मनुष्येभ्य आदयादविहिंसया ॥३०॥ पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् । मालाकार इवारामे न यथाङ्गारकारकः ॥३१॥ किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।
इति कर्माणि संचिन्त्य कुर्यादा पुरुषो न वा ॥३२॥ प्रमाणं नैव जानातीत्यस्यवै निदर्शनमिदं पुनर्विमर्शार्थ दोषाणां दुरुहत्वादिति भावः।
अनारभ्या एव भवन्त्यर्थाः केचित्तथागता ।
कृतः पुरुषकारो हि भवेधेषु निरर्थकः ॥ ३३ ॥ अगता अप्राप्ताः केचित्पर्वतपाटनादयः अनारभ्या एवाशक्यत्त्वात् , हिरण्यार्थे भिन्नक्रमः कृतोऽपीति ।
काश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् । क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥ ३४ ॥ ऋजु पश्यति य सर्व चक्षुषानुपिबन्निव । आसीनमापि तृष्णीकमपि रज्यन्ति तं प्रजाः ॥ ३५॥ चक्षसा मनसा वाचा कर्मणा च चतुर्वि १२ब धम् । प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति ॥ ३६ ॥ यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव । सागरान्तामपि महीं स लब्ध्वा परिहीयते ॥ ३७ ॥
For Private and Personal Use Only