SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मीतिकल्पतरुः। मिथ्योपेतानि मिथ्याचरितानि, अनुपायप्रयुक्तत्त्वादुःखोदर्काणि । तथैव योगविहितं न सिध्येत्कर्म यन्नृषु । उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ॥२०॥ उपाययुक्तमपि कर्मयोगेन युक्त्यापि विहितं चेन सिध्येत् न तत्र मनो ग्लपयेत् दैवप्रतिबद्धत्वात् तस्येत्यर्थः। अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु । संप्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥२१॥ सानुबन्धेषु सदोषोत्पादेषु सप्रतिबन्धेष्विति यावत्, अनुबन्धान्यारम्भप्रतिबन्धात् । अनुबन्धं च संप्रेक्ष्य विपाकांश्चैव कर्मणाम्। उत्थानमात्मनश्चैव धीरः कुर्वात वा न वा ॥२२॥ अनुबन्धः साधनं, विपाकः फलं, उत्थानं शक्तिः, अत्र कर्मण्येतानि साधनान्येतत्फल[१२ अ]मेतावती मम शक्तिरिति विचार्य कुति न वा कुति । यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षथे। कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते ॥२३॥ यः कोशादिषु त्रिषु प्रत्येकं क्षयस्थानवृद्धीनां प्रमाणमनुबन्धविपाकोदयलक्षणं न वेदेति । यस्त्वेतानि प्रमाणानि यथोक्ताननुपश्यति । युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ॥२४॥ न राज्ञा प्राप्तमित्येव वर्तितव्यमसाम्प्रततम् । श्रियं ह्यविनयो हन्ति जरारूपमिवोत्तमम् ॥२५॥ असाम्प्रतं नीतिविरुद्धमिदम्। भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम् । रूपातिपाती असते नानुबन्धमवेक्षते ॥२६॥ रूपातिपाती भक्ष्यरूपमात्रे पतन्, अनुबन्धं पश्चाद्बन्धम् । For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy