________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
नीतिकल्पतरुः।
देवतार्थ कर्म देवः, लोकव्यवहारसिद्धाधर्मा लोकवादाः, उत्थानमभ्युदयम् ।
समैर्विवाहं कुरुते न हीनैः
समैः सख्यं व्यवहारं कथाश्च । गुणैर्विशिष्टांश्च पुरोददाति
विपश्चितस्तस्य नयाः सुनीताः ॥ १४ ॥ मितं भुक्ते संविभज्याश्रितेभ्यो
मितं स्वपित्यमितं कर्म कृस्वा । ददाति मित्रेष्वपि याचितो य
स्तमात्मवन्तं प्रजहत्यनाः ॥ १५ ॥ चिकीर्षितं विप्रकृतं च यस्य
____नान्ये जनाः कर्म विन्दति किश्चित् । मन्त्रे गुप्ते सम्यगनुष्ठिते च
__ नाल्पोऽप्यस्य व्यथते कश्चिदर्थः ॥ १६ ॥ विप्रकृतं विरुद्धकृतं, व्यथते हस्ताश्यति ।
यः सर्वभूतप्रथमो विशिष्टः
सत्यो मृदुर्दानकृच्छुद्धभावः । अतीव सन्धायति ज्ञातिमध्ये
महामतिर्जन्य इव प्रसन्नः ॥१७॥ य आत्मनापत्रपते भृशं नरः
स सर्वलोकेशवरो भवत्युत। अनन्ततेजाः सुमनाः समाहितः
___ स्वतेजसा सूर्य इवावभासते ॥१८॥ मात्मनापत्रपतेऽन्येनानुक्तोऽपि स्वकृतं व्यलीकं स्वयं ज्ञात्वा लज्जते।
मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत । अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः ॥१९॥
For Private and Personal Use Only