________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भौतिकल्पतरुः। दुःखं च काले सहते जितात्मा
धुरंधरस्तस्य जिताः सपत्नाः ॥ ४ ॥ विद्वान्प्रतीकारज्ञः, अप्रमत्तः कार्यसीमाभिलाषी ।
अनर्थकं विप्रवासं गृहेभ्यः
पापैः सन्धि परदाराभिमर्षम् । दम्भं स्तेयं पैशुनं मद्यपानं
न सेवते यः स सुखी सदैव ॥ ५ ॥ न संरंभेणारभतेऽर्थवर्ग
चाकारितः शंसति सत्यमेव । न प्रश्नार्थे रोचयते विवादं
नापूजितः कुप्यति चाप्यमूढः ॥ ६॥ ( ११ अ ) संरंभेण परोत्कर्षदर्शनक्रोधेनार्थवर्ग स्वधनं नारभते, स्वधनमहमपि युगपद्वृद्धिं नयामि युगपञ्च वृद्धो भवामीति न प्रयुज्येत, अथवार्थवर्ग त्रिवर्ग संरंभेण क्रोधमात्रेण क्रोधावेशेन धर्मार्थकामान्न विनाशयेदित्यर्थः । आकारितः साक्ष्येण, मित्रार्थे मित्रप्रयोजने ।
न योऽभ्यसूयत्यनुकम्पते च
न दुर्बलः प्रातिभाष्यं करोति । अत्याहिते किञ्चित्क्षमते विवादं
सर्वत्र तादृग्ल्लभते प्रशंसाम् ॥ ७ ॥ नाभ्यसूयति गुणिनम् , अनुकम्पते दीनम् , न प्रातिभाष्यं करोति स्वप्रथितस्यास्य दानप्रसङ्गात् , अत्याहिते महाभये, तदानी विवादे क्रियमाणे कार्यनाशप्रसङ्गात् ।
यो नोद्धतं कुरुते जातुवेषं
__न पौरुषेणापि विकत्थतेऽन्यान् । न मूछितः कटुकान्याह कंचि
प्रियं सदा तं कुरुते जनोऽयम् ॥ ८ ॥
For Private and Personal Use Only