________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भौतिकल्पतरुः। अर्थ महान्तमासाद्य विद्यामैश्वर्यमेव च ।
विचरल्यसमुनरो यः स पण्डित उच्यते ॥ १९ ॥ इति व्यावहारिकपण्डितसाक्षाल्लक्षणकथनाभिधं कुसुमम् ।
[९ अ] अथार्थिकं तल्लक्षणम् ।
यः काममन्यू प्रजहाति राजा
पात्रे प्रतिष्ठापयते धनं च । विशेषविच्छ्तवान्क्षिप्रकारी
तं सर्वलोकः कुरुते प्रमाणम् ॥ १ ॥ जानाति विश्वासयितुं मनुष्या
न्विज्ञातदोषेषु ददाति दण्डम् । जानाति मात्राश्च तथा क्षमा च
तं तादृशं श्रीर्जयते समप्रा ॥ ८ ॥ मात्राविषयान्हेयत्वेन जानाति, क्षमामुपादेयत्वेन । अथवा अक्षमामिति च्छेदः ।
सुदुर्बलं नाभिजानाति कंचि.
द्युक्तो रिपुं सेवते बुद्धिपूर्वम् । न निग्रहं रोचयते बलस्थैः
काले च यो विक्रमते स धीरः ॥ ३ ॥ बुद्धिरेषा यत्कंचिदपि नातिदुर्बलं जानाति ततो बलार्जनेऽवलेपो न कार्यः, बलं सर्वथा समय॑म् , बलिनं रिपुं समीक्ष्य समाहितो भूत्वा रिपुं सेवेत, एतदाश्रितोऽसाविति लोकेष्वपि प्रदर्शयन् रिपुं सेवेतेति बुद्धिपूर्वमिति कथनस्याशयः । काले स्वविक्रमकाले ।
प्राप्यापदं न व्यथते कदाचि
द्विदासमन्विच्छति चाप्रमत्तः ।
For Private and Personal Use Only