SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। नासंस्पृष्ट उपयुक्ते परार्थे तत्प्रज्ञानं प्रथमं पण्डितस्य ॥ ११ ॥ चिरं शृणोति शङ्कानिरसावधि, अर्थमलं विज्ञाय भजते अनेन ममासावर्थः सिद्धयतीति भजते तत्र सक्तिं कुरुते, न कामात् इच्छामात्रात् , असंस्पृष्टस्तदनंतरमप्राप्तः परार्थविषये नोपयुङ्क्ते उपक्रमते, प्रज्ञानं चिह्नम् । नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥ १२ ॥ निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः । अवन्ध्यकालो वन्द्यात्मा स वै पण्डित उभ्यते ॥ १३ ।। उपायं निश्चित्य प्रक्रमते, शीघ्रं करोति, नातवसति आरभ्य चिरयति, कर्मासमाप्य वा न मध्ये तिष्ठति, अवन्ध्यकालः सदाप्रयोजनवान् अवसानज्ञो वा, अथवा प्रथमे शास्त्रार्थचिन्ता द्वितीयेऽर्थादिचिन्ता तृतीये धर्मचिन्तेत्यादि । आर्यकर्मणि रज्यन्ते भूमिनाशं न कुर्वते । हितं च नाभिसूयन्ति पण्डिता भरतर्षभ ॥ १४ ॥ न दृष्यत्यात्मसंमाने नावमानेन तप्यते । गङ्गाहद इवाक्षोभ्यो यः स पण्डित उच्यते ॥ १५ ॥ तत्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् । उपायज्ञो मनुष्याणां स वै पण्डित उच्यते ॥ १६ ॥ भूता[१० ब]नां पृथिव्यादिविकाराणां, तत्त्वं विनाशित्वादि, योग औचित्यम् , मनुष्यकर्तव्योपायज्ञश्च । प्रवृत्तवाक्चित्तकथऊहावान्प्रतिभानवान् । आशु ग्रन्थप्रयुक्ता च स वै पण्डित उच्यते ॥ १७ ॥ प्रतिभा तत्कालस्फूर्तिः । श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा। असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ॥ १८ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy