________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
'निषेवते प्रशस्तानि निन्दितानि न सेवते । अनास्तिकः श्रद्धधान एतत्पण्डित लक्षणम् ॥ ३ ॥ क्रोधो हर्षश्च दर्पश्च हीःस्तम्भो मान्यमानिता ।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥ ४ ॥ अर्थात् स्वबुद्धिनिश्चयात्
यस्य कृतिं न जानन्ति मन्त्रं वा मन्त्रितं परे । कृतमेवास्य जानन्ति स वै पण्डित उच्यते ।। ५ ॥ कृतं फलितं फले जाते जानन्ति अनेनेदं कृतमासीदिति । यस्य कृतिं न निघ्नन्ति शीतमुष्णं भयं रतिः । समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥ ६ ॥ यस्य कृतिं न जानन्ति मन्त्रं वा नीतिसंयुतम् ।
धर्ममेवास्य जानन्ति स वै पण्डित उच्यते ॥ ७ ॥ अत्र कृतमन्त्री कामार्थप्रधानौ कामार्थों गुप्तमेव रचयतीत्यनेन तत्रोभयत्रास्वारस्य सूचितम् ।
यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते ।
कामादर्थ वृणीते यः स वै पण्डित उच्यते ॥ ८ ॥ संसारिणी सम्यक्सरणशीला । अयमर्थः कामापेक्षयार्थ वृणीतेऽर्थापेक्षया धर्म वृणीत इति धर्मार्थमेव केवलं कामार्थौ सेवते इति । तथा[१० अ]चाभिज्ञवाक्यम्:--
स्थित्यै दण्डयतौ दण्डयान् परिणेतुः प्रसूयते । अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः ' ॥९॥ इति यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते । न कंचिदवमन्यन्ते पण्डिता भरतर्षभ ॥ १० ॥ क्षिप्रं विजानाति चिरं शृणोति
विज्ञाय चार्थ भजते न कामात् ।
For Private and Personal Use Only