SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। [९] इति नीतिपीठिका व्यवस्थाप्य तामेव नीति विवृण्वन्नतारयति । समज्यं पाण्डित्यं स्वपरहितकृत्कीर्तिजनक न मौख्यं धीपारिहच परलोके च भयदम् । सदासङ्गो धार्यः सुजनशुभशास्रार्थनिरत न धूतैः पाषाण्डप्रवणमतिभिर्वश्चन परैः ॥ समज्यंमिति :- धीपात्रैः परमेश्वरसमर्पितबुद्धयाख्यानय॑मणिरक्षणचतुरैः पाण्डित्यमेव समज्यं सर्वमन्याद्विहायैतदेव प्रयत्नेन पण्डितगृहानागत्य विनयेन. प्रार्थ्यमिति प्रतिज्ञा । तत्र विशेषणद्वारेण हेत्वादि निरूपणार्थमाह । स्वपरेतिःतत्र पण्डा शुद्धा मतिः सा संजातास्येति पण्डितस्तस्य भावस्तत्त्वमेतदवश्यं समर्जनीयमेतद्विना जीवनमात्रस्याप्यतिदुर्घटत्वात् । तथा च 'जीवत्यर्थदरिद्रोऽपि धीदरिद्रो न जीवति ' । इति अनेन हि चरतां व्यवहरतां (९ ब ) स्वहितं परहितं चानुभूयान्ते कीर्तिस्थापनाल्लोकानन्त्यमपि सिद्व्यतीत्युक्तं कीर्तिजनकमिति । तथा च भगवान् व्यासः 'दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः । यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ १ ।। इति तथा 'यावत्कीर्तिमनुष्यस्य पुण्यलोकेषु गीयते ।। तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ' ॥ २ ॥ इति प्रसिद्धं चेन्द्रद्युम्नोपाख्यानादाविदमिहतु विस्तारभयान्न प्रतन्यते । पाण्डित्यं समय॑मित्युक्तेऽर्थान्मौख्यं न समय॑मिति लब्धेऽपि विनये सौकर्यार्थमेतदपि साक्षादेवोदिशति । न मौमितिः- तत्र मूर्योऽविवेकी कार्याकार्य विवेकहीनस्तद्भावो मौख्यं तन्न समय॑मिति पूर्ववत्प्रतिज्ञा। अत्र हेत्वादि निरूपणार्थ विशेषेणोपन्यास इहेत्यादि । एतदुभयलक्षणानि च धृतराष्ट्र प्रति विदुरो वक्ति स्म यथा-- For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy