________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
[८] नाशं सहासकार्येति सम्पत्तावपि मूढधीः । बुद्धिं समन्त्र्यकार्येति विपत्तावपि बुद्धधीः ॥ १॥ तथा हि दृश्यतां रामरावणौ तादृशस्थिती । निदर्शनगिहामुत्र जग्मतुर्यत्समाश्रयात् ॥ २ ॥ विमृष्य कालं सोढ्वापि सौष्ठवं याति घीमताम् । पणितं चापि यत्कार्य त्वरानर्थाय केवलम् ॥ ३ ॥ तथा च शिखरारूढौ कौचिस्किल परस्परम् । उद्दिश्य वसनादानं भूप्राप्तौ पेणतुः पुरः ॥ ४ ॥ तत्रैको बुद्धिमादाय सुखेन भुवमागतः । अपरस्त्वरया लोकहास्याय प्रलयं गतः ॥ ५ ॥ जायते सिद्धये शीघ्रं विमृष्य विहिता क्रिया । क्षेपाया सिद्धये चापि त्वरानर्थेककारणम् ॥ ६ ॥ श्रूयते कौचनारण्यं गताविङ्गारसिद्धये । चिरकारीद्रुतं प्राप्तःक्षिप्रकारी चिरागृहम् ॥ ७ ॥ प्रज्वाल्य वहिं निर्वाप्य बद्धा भारं सुखाद्गृहम् । प्राप्तोऽसौ चिरकृत्साधु फलेन युयुजे पुनः ॥ ८॥ क्षिप्रकारी द्रुतं भारं बद्धा मार्गेऽनलोदयात् । तप्त्वा गत्वा नदी भारं निर्वाप्यापार्यभाक्चिरम् ' ॥ ९॥ इति संभ्रमविचारफलाभिधं कुसुमम् ॥ ८ ॥
1 Corrupt.
For Private and Personal Use Only