________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः |
नास्मादृतेऽन्यदस्तीह सम्भाव्यापदमायतौ ।
असौ विधेयः सद्वैद्यैरभ्यस्तमतिभिः सदा ॥ ९॥
३
आयव्ययपरिज्ञान चतुरैर्दीर्घदर्शिभिः ।
( ७ ब ) आरब्धोऽयं विदां सत्यं सत्फलाय दृढं भवेत् ॥ १० ॥
उक्तं च प्राक्तनैज्यैष्ठकनिष्ठोत्तमपामरैः ।
प्रतीतिपात्रैरेषा धीः कर्तव्या भव्यबुद्धिभिः ॥ ११ ॥
कदापि संभवत्येषा धीः कनिष्ठार्वतामपि
या ज्येष्ठोत्तम साधूनां मनोरथपथातिगा ॥ १२ ॥ इति
अलं वा बहुना यत्र परलोकमार्गे स्वजनबन्धादित्यागेनैक एवं गच्छतीति लोके प्रसिद्धिः । तत्रापि नैकस्यास्य निर्वाह इति दृष्टान्तद्वारेणावतारयति । अमुत्रेतिः- अमुत्र परलोके सामस्त्यमेव कार्यसाधकं भाविजन्मान्तरसाधकं तत्र किं वक्तव्यं सर्व संभारभरित इह लोक इति । परलोकमार्ग ह्यसौ लोकप्रसिद्धैक एव गच्छन् सहाय एव तत्रापि गच्छतीति । तथा च सूत्रकारः
' तदनन्तरप्रतिपत्तौ रंहतिसंपरिष्वक्तः प्रश्ननिरूपणाभ्यामिति' ।
१७
अनेन हीन्द्रियप्राणमात्रासहितस्यैव व्यावहारिकजीवस्य प्रयाणं ब्रूते इति । अथ च उक्तं परमेश्वर एकोऽसहाय एव स्वविधेयं निर्वहतीति किमित्यपूर्वमन्यदुत्थापितमिति न मन्तव्यमित्यवतारयति । अमुत्रापीति:- अमुत्र परमेश्वरेप्येवं ससहाय एवासावपि करोतीति स्वकर्तव्ये प्रथमं स्वविभूतिप्रसारणात् । तथा च निदर्शितम् ।
तथा च स्वयमीशोऽसौ स्थित्वान्तश्चतुरात्मना ।
विविच्य कुरुते यात्रां तदभावे कुतः स्थितिः ॥ १३ ॥ इति
अत्रार्थ:- स्वयमन्तर्यामितया स्थित्वा चतुरात्मनान्तःकरण चतुष्कतदधिष्ठातृसंकर्षाणां चतुष्कतया विविच्य चित्संकल्पनिश्चयाहन्ताभिः पृथक्कृत्य यात्रां लोकव्यवहारं कुरुते इति । अत्रैवोक्तमर्थं व्यतिरेकमुखेन द्रढयति । तदभावे इति तथा चोक्तम्
For Private and Personal Use Only