SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। [६] अन्ये पुनः किलेतिः-- निश्चितमेतदाधुनिकैः सामस्त्यं परसाहाय्यं कार्यसाधकमिति विदुः । ततश्चापेक्षानुसारेणैकं बहून्यातांश्च ज्येष्ठोत्तमान्कनिष्ठप्राकृतान्वा सहायीकृत्य नीत्या कार्य साधयेदित्यर्थः । तथा च सुशीलशैल्याम् 'अनन्तकार्यसमिान्तं गन्तुमेकः कथं प्रभुः । उन्मूल्यशत्रून्साहाय्यादेत्य कार्यान्तमध्यधीः ' ॥१॥ इति व्यतिरेकबोधोऽपि तत्रैवोक्तः । ' असंमन्यकृता तत्तत्फलासिद्धावनर्गला । सर्वोपालम्भरसना कथं नाम न दूषयेत् ॥ २ ॥ इति तथा 'समंन्त्र्यकारिणां जातु फलासिद्धौच पूरुषम् । संश्लाघ्य निन्द्यते दैवं घिगुद्योगारिमुद्धतम् ॥ ३॥ बहुनालं विनिश्चित्य बहुभिर्यद्विधीयते । तदेकनिश्चितं दूराद्विजित्य सफलं भवेत् ॥ ४ ॥ न बुद्धिधर्म एकोऽस्तीत्येवं निश्चित्यमाररैः । नयरत्नमिदं धीमन्मुद्रयस्वानवेक्षया' ॥ ५ ॥ अत्रार्थः । कदाचित् कस्यचित् धीरत्र पारमेष्यत्येवेतीदं नयरत्नमररैः कुकल्पनारूपैरर्गलैरनवेक्षयाऽनाश्रयणेन मा मुदय माऽऽबद्धमुखं कुरु । अवश्यं कस्याप्येतन्नीतिरत्नं बुद्धिधर्मउन्मुद्रितं कार्यसिद्धये स्यादेवेति । आहुश्चः पूर्वे निपुणा द्वाभ्यामेको विजीयते । बहुभिश्चापि तो सत्यं सदैव सफलो नयः ॥ ६ ॥ कालान्तरफलायालं तत्क्षणं न फलेद्यदि । कृतं हि सुकृतं लोके न जातु विफलं भवेत् ।। ७ ॥ देशौकः पुरकार्येषु विधीयो धीधनैः सह । आरवेटोऽसौ बह्वधीनो यूथो नैकस्य गोचरः ॥ ८ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy