________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप
नीतिकल्पतरुः। [५]
श्रीगणेशाय नमः । एवं नीतिस्वरूपमुक्त्वा कथमसौ विधातव्येति पीठिकामवतरयन्नाह ।
सेयं निश्चितधीमिरेकशरणैः कार्येति केचिज्जगुः
सामस्त्यं किल कार्यसाधकममुत्रापीति चान्ये विदुः। मुक्त्वा साहसमाकलय्य घटनां तस्माद्विदामे तथा
लोकेस्मिश्चरतां न कापि कलनासौ या न हस्तं श्रयेत् ॥१॥ सेयमिति :- सेयममलप्रज्ञालक्षणा नीतिनिश्चितधीभिर्निरंतरशास्त्रपरिचयावदातधिषणैरैकशरणैरेकः स्व एवान्तर्यामी शरणं रक्षिता यत्रेत्येवं विधेया केवलमसावन्तर्यामी यदत्रोचितं जानाति तदेव मम हितमिति कृत्वा स्वमनसैव विमृश्य कार्येति केचिज्जगुः ।
____ अयमर्थः । यथा परमेश्वरोऽसावेकः स्वकर्तव्येऽन्यानपेक्षः स्वविभूत्यैव कार्यान्तं गच्छति तथाहमपि तदेकशरणस्तद्वदत्रोपकरणश्च तत्प्रसादादेव कार्यान्तं गच्छामीति किमन्येन मम कर्तव्यमिति । तथा च याज्ञवल्क्यवाक्यम्--
'एकः परोस्तीह चराचराणां कर्ता स्वयं भूतिरशेषसाक्षी ।।
न चान्यदस्तीति दृक्प्रतीतौ गति विशुद्धा परमा किमन्यदू' ॥२॥ इति अथवा एकशरणैरेकं स्वमनएवात्र शरणं नान्य एतदन्तरज्ञो विधेय इति । शास्त्रानुशासिते निश्चितिधीभिरियं विधेयेति । तथा च नीतिशास्त्रम्
'षट्कर्णो भिद्यते मन्त्रश्चतुष्कर्णोऽपि[ ७ अ]जातुचित् । द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्यन्तं न गच्छति ' ॥३॥
तथा
'गिरिशृङ्गमुपारुह्य प्रासाद वा रहो गतः । अरण्ये निःशलाके वा तत्र मन्त्री विधीयते' ॥ ४ ॥ इति
इति नीतिगोपनाभिधं कुसुमम् ॥ ५॥
For Private and Personal Use Only