________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५
मीतिकल्पतरुः।
दिधर्मः प्रजापालनाद्यधिकृतस्य क्षत्रस्याविहितत्वादधर्मः । तथा राजसूययाजिराज्ञां द्यूतं धर्मो नैसर्गिकोऽसावपि कपटदम्भादिप्रयुक्तत्वादधर्मरूपं बिभर्ति एवं बुद्धया प्रकाशमानं पश्यन्ति, न त्वादृशास्त्वत्स्वामिसमाना वा ये इत्यर्थः । इति धर्मविचारणायातिसूक्ष्मत्वादमलप्रज्ञैव नीतिरिति भावः । तथा युधिष्ठिरवाक्यंः
'लुप्तायां तु प्रकृतौ येन कर्म
निष्पादयेत्तत्परीप्सेविहीनः । . प्रकृतिस्थश्चापदि वर्तमान
उभौ गौँ भवतः संजयैतौ ' ॥ २१ ॥ एतावुभौ विहीनः प्रकृतिस्थधर्म पालयन् प्रकृतिस्थश्चापद्धर्म पालयन्निति । तथा ' मनीषिणां सत्त्वविच्छेदनाय
विधीयतेऽसत्सुवृत्तिः सदैव । अब्राह्मणाः सन्ति तु ये न वैद्याः
सर्वोच्छेदं साधु मन्येत तेभ्यः ॥ २२ ॥ सत्त्वविच्छेदनाय देहविनाशाय, विधीयते श्रुतिस्मृतिषु न तु निषिध्यते, वृत्तिः प्रवृत्तिः, अब्राह्मणा वेदोक्तसीमानिर्गताः, सर्वोच्छेदं देहद्रव्यादिसर्वनाशम् । तथा
' यत्किञ्चेदं वित्तम[ ६ ब ]स्यां पृथिव्यां
यद्देवानां त्रिदशानां परं यत् । प्राजापत्यं त्रिदिवं ब्रह्मलोकं
नाधर्मतः संजय कामये तत् ' ॥ २३ ।। इति सिद्धममला प्रज्ञा नीतिरिति । इति नीतिकल्पलतायां नीतिप्रभावदैवबलीयस्त्वंनीतिपरित्यागनातिस्वरूपकथनाख्या प्रथमा मञ्जरी समाप्ता ।
For Private and Personal Use Only