SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२ मीतिकल्पतरुः। [११५] अथ द्वाःस्थलक्षणम् । प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः । चित्तग्राहश्च सर्वेषां प्रतीहारो विधीयते ॥ १॥ तथा प्रांशवोध्यायताः शूरा दृढभक्ता निराकुलाः । राज्ञा तु रक्षिणः कार्याः स्वे परे च सदाहिताः ॥ २ ॥ स्खे स्वकीयाः परे तद्विपरीताः । इति द्वास्थलक्षणाभिधं कुसुमम् । [११६] अथ दूतलक्षणम् । यथोक्तवादी दूतः स्यादेशभाषाविशारदः । शाब्दः क्लेशसहो वाग्मी देशकालविभाषकः ॥ १ ॥ विज्ञाय देशं कालं च हितं यत्स्यान्महीक्षितः । वक्ताऽपि तस्य यः काले स दूतो नृपतेर्भवेत् ॥ २ ॥ संजयः । अस्तब्धमक्लीबमदीर्घसूत्रं सानुक्रोशं श्लक्ष्णमहाधमन्यैः । अरोगजातीयमुदारवाक्य दूतं वदन्त्यष्टगुणोपपन्नम् ॥ ३ ॥ अत्रैव सन्धिकारकलक्षणम् ।। षाड्गुण्यविधितत्वज्ञो देशभाषाविशारदः । सन्धिविग्रहकृत्कार्यों राज्ञा नीतिविचक्षणः ॥ ४ ।। इति दूतसन्धिकारकलक्षणाभिधं कुसुमम् । [११७ ] अथ चरलक्षणम्--- कथिताः सततं धीरै राजानश्चरचक्षुषः । कियत्पश्यन्ति चक्षुभ्या राजानो वितताक्षिणः ॥ १॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy