SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४८ नीतिकल्पतरुः। तेजो न तयत् प्रियसाहसत्वं वाक्यं न चानिष्टमसत्प्रणीतम् । कार्यस्य गत्वान्तमनुद्धता ये तेजस्विनस्ते न विकत्थना ये ॥ ४ ॥ सर्वोपकारानुगतस्य लोकः सर्वोपकारानुगतो नरस्य | कृत्वौपकारं द्विषतां विपत्सु या कीर्तिरल्पेन न सा शुभेन ॥५॥ [१०२ब]यः सार्वजन्यं सुभगत्वमिच्छेत् गुणान्स सर्वस्य वदेत् परोक्षम् । प्राप्नोति दोषानसतोप्यनेकान् परस्य यो दोषकथां करोति ॥६॥ तृणैरिवाग्निः सुतरां विवृद्धिमाच्छाधमानोऽपि गुणोऽभ्युपैति । स केवलं दुर्जनतात्वमेति हाँ गुणान् वाञ्छति यः परस्य ॥७॥ ___ इति सौभाग्यकारणाख्यं द्वादशं कुसुमम् । [११३] अथ सहायसुहलक्षणाख्यम् । तत्र पुष्करः परशुरामं प्रति-- 'सहायवरणं कार्य तत्र राज्यं प्रतिष्ठितम् । यदप्यल्पतरं कार्य तदप्येकेन दुष्करम् ॥ १॥ पुरुषेणासहायेन किमु राज्यं महत्परम् । तस्मात्सहायान्वरयेत् कुलीनानृपतिः स्वयम् ॥ २ ॥ शूरानुत्तमजातीयान् बलयुक्ताम्श्रुतान्वितान् । रूपसत्वगुणौदार्यसंयुक्तान्क्षमयान्वितान् ॥ ३ ॥ केशक्षमान्महोत्साहान्धर्मज्ञांश्च प्रियंवदान् ।। हितोपदेशकान् राज्ञा स्वामिभक्तान्यशोर्थिनः' ॥ ४ ॥ विदुरः-- 'जात्या समीक्ष्य मेधावी बुद्धया संपाय चासकृत् । श्रुत्वा दृष्ट्वाथ विज्ञाय प्रा मैत्री समाचरेत् ' । ५॥ अयं मन्त्र्यादिजातिर्नवेति जातिसमीक्षणम् । बुद्धया प्रत्यक्षेण फलाधुपलम्भेन संपायोपपनमेतन मिथ्येति निश्चित्य श्रुत्वाप्तेभ्यस्तत्रापि बलादि दृष्ट्या संवादेनाप्तद्वारावधारणात् ततोऽपि विज्ञाय कार्यत्वेन विनिचित्येति । For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy