SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। कामक्रीडां समामिच्छेत् पीनौष्ठी च सदा मदा । ईदृशं लक्षणं यस्या हस्तिनी तां विदुर्बुधाः ॥ १६३ ॥ गन्धमाल्यप्रिया नित्यं वस्त्राभरणसादरा । ताम्बूलमृतगल्ला च देवब्राह्मणतत्परा ॥ १६४ ॥ रमते क्षणमेकं तु बहुपुत्रा प्रजायते ।। [१०२॥ईदृशं लक्षणं यस्याः शङ्खिनों तां विदुर्बुधाः ॥१६५॥ गन्धमालारता नित्यं वस्त्राभरणतत्परा । ताम्बूलपानकामा च बालेव चपला सदा ॥ १६६ ॥ स्वस्तिप्रीतिरता नित्यं क्षिप्रनिद्रा च या भवेत् । एभिस्तु लक्षणैर्युक्ता चित्रिणी संप्रकीर्तिता ॥ १६७ ॥ इति नीतिकल्पे स्त्रीलक्षणशाखा समाप्ता ॥ [११२] ॐ अथात्र प्रसङ्गात् सौभाग्यकुसुमम् । जायं मनोभवसुखं सुभगस्य सर्वमाभासमात्रमितरस्य मनोवियोगात् । चित्रे हि भावयति दूरगतापि यं स्त्री गर्भ बिभर्ति सदृशं पुरुषस्य तस्य ॥१॥ जात्यमनाहार्य । सुभगस्य स्त्रीवल्लभस्य । उपलक्षणमिदं स्त्रिया अपि पतिप्रियायाः। दाक्षिण्यमेकं सुगभत्वहेतुर्विद्वेषणं तद्विपरीतचेष्टा । मन्त्रौषधाथैः कुहकप्रयोगैर्भवन्ति दोषा बहवो न शर्म ॥२॥ दाक्षिण्यमानुकूल्यं स्त्रीणामनुकूलाचरणात्पुरुषः प्रियो भवति । एवं पुंसामपि ली । एतद्विपरीतचेष्टाननुकूलाचरणम् । विद्वेषणं द्वौर्भाग्यकारणम् । मन्त्रेति । मन्त्रा वशीकारमन्त्राः । औषधानि द्रव्यविशेषाः आदिग्रहणादोजनपानलिङ्गलेपादिग्रहणम् । अन्ये च कुहकप्रयोगा विस्मयोत्पादकाश्चतुरविहिताउपायाः । एते चोपतापकराः शरीरोपद्रवकरा भवन्ति न शर्मकरा इति । वाळभ्यमायाति विहाय मानं दौर्भाग्यमासादयतेऽभिमानः । कृष्छेण संसाधयतेऽभिमानी कार्याण्ययत्नेन वदन्प्रियाणि ॥ ३ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy