________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
કરું
नीतिकल्पतरून दुःशीला सा च विज्ञेया वैधव्यं लभते पुनः ॥ १०५॥ रमणी मधुपिङ्गाक्षी धनधान्यसमृद्धिभाक् ॥
पक्ष्मभिः सुघनैः स्निग्धैः कृष्णैः सूक्ष्मैः सुभाग्यभाक् ॥१०६॥ इति अथ भ्रलक्षणम्
भ्रूवौ सुवर्तुले तन्व्यौ स्निग्धे कृष्णे असंहते ।
प्रशस्ते मृदु भानौ सुभ्रवः कार्मुकाकृती ॥ १०७ ।। इति अथः कर्णलक्षणम्
कर्णी लम्बौ शुभावर्ती सुखदौ च शुभावहौ ।
शष्कुलीरहितौ निन्छौ सिरालौ कुटिलौ कृशौ ।। १०८ ॥ इति भथ ललाटलक्षणम्
भालः सिरा[१००अविरहितो विरोमार्धेन्दुसन्निभः । अनिम्नरूयॉलोनार्घाः सौभाग्यारोग्यकारणम् ॥ १०९ ॥ व्यक्तस्वस्तिकरेखं च ललाटं राज्यसंपदे । प्रलम्बमलिकं यस्या देवरं हन्ति सा ध्रुवम् ॥ ११०॥ रोमशेन सिरालेन प्रांशुना रोगिणी मता । सीमन्तः सरलः शस्तो मौलिः शस्तः समुमतः । गजकुम्भनिभो वृत्तः सौभाग्यश्वर्यसूचकः ॥ १११ ॥ स्थूलमूर्धा च विधवा दीर्घशीर्षा च बन्धकी।
विशालेमापि शिरसा भवेदौर्भाग्यभागिनी ।। ११२ ।। समुद्रः ।
यथा मुखं तथा गुह्यं यथा चक्षुस्तथा भगः । यथा हस्तौ तथा पादौ बाहू जर्छ तथैव च ॥ ११ ॥ यस्यास्तु हसमानाया ललाटे तिलको भवेत् । वाहनानां समस्तानां साधिपत्यं च गच्छति ।। ११४ ॥ ललाटं यजुलं यस्याः शरीरं रोमवर्जितम् । मिर्मलं च समं देहं सायुःसौख्यधनप्रदा ॥ ११५ ।।
1 Currupt.
For Private and Personal Use Only