________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
२४१ अथ तालुलक्षणम्--
श्वेतेन तालना दासी दुःखिता कृष्णतालुना ।
हरितेन च रूक्षेण रक्ततालुः सुशोभना ।। ९७ ॥ इति अत्रान्यत्र विस्तारः
सिततालुनि वैधव्यं पाते प्रव्रजिता भवेत् । कृष्णे पतिवियोगार्ता रूक्षे भूरिकुटिम्बिनी ।। ९८ ॥ कण्ठे स्थूला सुवृत्ता च ... ' च लोहिता ।
य.... शुभा....' स्थूला कृष्णा च दुःखदा ॥ ९९ ॥ इति अथ स्मितलक्षणम्
अलक्षितद्विजं किञ्चित किश्चित्स्फुल्लकपोलकम् ।।
स्मितं प्रशस्तं सुदृशामनिमीलितलोचनम् ॥ १०० ॥ इति अथ नासालक्षणम्--
दीर्धेण नासिकाग्रेण नारी भवति कोपिनी । इस्खेन तु भवेदासी परकर्मकरी तथा ।। १०१ ॥ चिपिटा नासिका यस्या वैधव्यं साथ गच्छति । नातिदीर्घा न विस्तीर्णा सरला सौख्यकारिणी ॥ १०२ ॥ समवृत्तपुटा नासा लघुच्छिद्रा शुभावहा । स्थूलाग्रा मध्यनम्रा च न प्रशस्ता समुन्नता ॥
आकुश्चितारुणाग्रा च वैधव्यक्लेशदायनी ॥ १०३ ॥ इति अथ लोचनलक्षणम्
दीर्घायुः चक्षुदैये' युगपत् द्वित्रिपिण्डितम् । उनताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत् ॥ १०४ ।। मेषाक्षी केकराक्षी च महिषाक्षी न शोभना । पिङ्गनेत्रा भवेन्नारी अप्रिया चैव भामिनि ॥
1
Corrupt.
S1
For Private and Personal Use Only