SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतः। यस्यास्त्रीणि प्रलम्बानि ललाटमुदरं भगः । सापि संहरते त्रीणि श्वशुरं देवरं पतिम् ॥ ११६ ।। इति अथ केशलक्षणम् स्थूलकेशा पतिप्नी स्याहीर्घकेशा धनप्रदा । परुषैः कपिलैः क्रूरा स्कन्धकेशी च शोभना ।। ११७ ॥ इति अथ स्वरलक्षणम् हंसस्वरा क्रौञ्चस्वरा कोकिलभ्रमरस्वरा । चक्रवाकस्वरा या च धनधान्यविवर्धिनी ॥ ११८ ॥ हंसस्वरा मेघवर्णा नारी या दीर्घलोचना । यस्य गेहे तु सा गच्छेत् तद्गृहं पुण्यभाजनम् ॥ ११९ ॥ तीक्ष्णस्वरातिगम्भीरस्वरातिमधुरस्वस । अष्टौ सा जनयेत्पुत्रान्धनधान्यसमन्विता ॥ १२० ॥ इति अथ लाञ्छनावर्ततिलकलक्षणम् कल्यावर्ता वरा नारी नाभ्यावर्ता वृतात्मजा । पृष्ठावर्ता पतिघ्नी सा तस्मादेतां विवर्जयेत् ॥ १२१ ॥ वृत्तः पृष्ठे तथावर्तो यस्या भवति निश्चितम् । . बहूरमेत पुरुषान्दुःखितान्कुरुते पुनः । १२२ ॥ वामावर्ती भवेद्यस्या वामे यदि च मस्तके । निर्लक्षणतया सा स्याद्भिक्षामात्रैकजीविनी ॥ १२३ ॥ दक्षिणो दक्षिणे भागे यस्थावर्तस्तु मस्तके । तस्या नित्यं प्रजायेत कमला करवर्तिनी ॥ १२४ ॥ यस्यास्तु हृदये नार्या रक्ताभस्तिलको भवेत् । लाञ्छनश्च भवेद्रक्तं सा नारी शोभना भवेत् ।। १२५ ॥ लभते वित्तसंपत्ति पतिं च वशवर्तिनम् । पुत्रत्रयं प्रसूते सा तथा कन्याचतुष्टयम् ॥ १२६ ॥ स्तने वामे च कृष्णाभं लाञ्छनं तिलकोपमम् । क्षिप्रं वैधव्यमाप्नोति जायते सा च दुःखिता ॥ १२७ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy