________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीतिकल्पतरुः ।
आवर्ता दक्षिणे शस्ता सावर्ताड्गुलिपर्वसु ।
ताम्राः स्निग्धाः शिखोत्तुङ्गाः पर्वार्धाश्च नखाः शुभाः ॥ १४५ ॥ नखेषु विदन्वः श्वेताः पाण्योश्चरणयोरपि ।
अथ लिङ्गलक्षणम् -
Acharya Shri Kailassagarsuri Gyanmandir
आगन्तवः प्रशस्ताः स्युरिति भोजनृपोऽभ्यधात् ॥ १४६ ॥ त्रिकोण रेखया सीरमुसलोलूखलादिना ।
वस्तुना हस्तजातेन पुरुषः स्यात्कृषीवलः ।। १४७ ॥ पाणेस्तलेन शोणेन धनी नीलेन मद्यपः । पीतेनागम्यनारीगः कृष्णेन च धनोज्झितः ॥ १४८ ॥ अरेखं बहुरेखं वा येषां पाणितलं नृणाम् । तेस्युरल्पायुषो निस्स्वा दुःखिता नात्र संशयः ॥ १४९ ॥ इति पुरुषलक्षणशाखायां पाणिगुच्छकः ।
दक्षिणावर्तलिङ्गेन पुरुषः पुत्रवान्भवेत् ।
वामावर्तेन लिङ्गेन नरः कन्याप्रजो मतः ॥ १५० ॥ स्थूलदीर्घ यस्य लिङ्गं स नरो दुःखभाग् भवेत् । प्रलम्बबकलिङ्गाश्व पुरुषाः सुखभोगिनः ॥ १५१ ॥ एकैकधारलिङ्गेन नरो भवति पार्थिवः ।
अथ शुक्रलक्षणम्-
द्विधारा धनवन्तश्च बहुधारे दरिद्रता ॥ १५२ ॥ समपादोपविष्टस्य गुल्फौ स्पृशति मेहनम् । भोगवान्स तु विज्ञेयो वार्थतुरगमेहनः ॥ १५३ ॥ समपादोपविष्टस्य महीं स्पृशति मेहनम् ।
स भवे दुःखितः प्रोक्तो दारिद्र्येन च पीडितः ।। १५४ ॥ दीर्घलिङ्गेन दारिद्र्यं स्थूललिङ्गेन दुःखिता ।
कृशलिङ्गेन सौभाग्यं ह्रस्वलिङ्गेन भूपता ॥ १५५ ॥
मीनगन्धेन शुक्रेण धनत्रान्पुत्रवान् भवेत् । हविर्गन्धेन शुक्रेण गवादयो जायते नरः ॥ १५६ ॥
For Private and Personal Use Only
२२९