SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २२८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः कनिष्ठाङ्गुलितो रेखा गच्छेद्यदि प्रवेशिनीम् । सप्तति तस्य वर्षाणि विबुधो निर्दिशेद्ध्रुवम् ॥ १३१ ॥ प्रदेशिनी मध्यगताशीति वर्षाणि जीवति । मध्यt व्यतीत्य च गता नवत्यब्दानि जीवति ॥ १३२ ॥ मर्मान्तरगता रेखा शतं वर्षाणि जीवयेत् । कनिष्ठान्तर्गता रेखा नदीमृत्युश्च कारयेत् ॥ १३३ ॥ ऊर्ध्वरेखा भवेद्यस्य शृङ्गिभिर्वा विहन्यते । अधूरेखा द्रव्यरेखा कर्मरेखा ततः परम् ॥ १३४ ॥ अङ्गुष्ठमूलादारभ्य कौमारं यौवनं जरा | रेखात्रिके दर्शनीयं कर्मार्थयुश्च तत्र वै ।। १३५ ॥ मणिबन्धमुखाच्चायू रेखाया येऽत्र पल्लवाः । संपदस्ते बहिर्ये च विपदोऽङ्गुलिसंमुखाः ।। १३६ ॥ यवैरङ्गुष्ठमध्यस्थैर्विद्याख्यातिविभूतयः । शुक्लपक्षे तथा जन्म दक्षिणाङ्गुष्ठगैश्च तैः ॥ १३७ ॥ कृष्णपक्षे तथा जन्म वामाङ्गुष्ठागतैर्यवैः । यवैरङ्गुष्ठमूलस्यैस्तत्संख्याः सूनवो नृणाम् ॥ १३८ ॥ अनामिकान्तपर्वस्था प्रीतिरेखा प्रभुत्वकृत् । ऊर्ध्वा पुनस्त तस्य धर्मरेखैवमुच्यते ॥ १३९ ॥ अङ्गुष्ठा पितृरेखान्तस्तिर्यखापदप्रदा । अपत्यरेखाः सर्वाः स्युर्मत्स्याङ्गुष्ठतलान्तरे ॥ १४० ॥ लिष्टाम्यगुलिमध्यानि द्रव्यसंचयहेतवे । तानि चेच्छिद्रमुक्तानि दानशीलो भवेन्नरः ।। १४१ ॥ एकोऽप्यधिमुखस्तस्य मत्स्यः श्रीवृद्धिकारणम् । संपूर्णौ किं पुनद्वै स्तः पाणि [ ९४अ ] मूलास्थितौ नृणाम् ॥ १४२ ॥ तुला वामकरे वज्रं करमध्ये तु दृश्यते । वाणिज्यं सिध्यते तस्य पुरुषस्य न संशयः ॥ १४३ ॥ ऊर्ध्वरेखा करा येऽप्यरेखाः स्युरङ्गुलित्रये । नानाभोगसुखासीनाः समुद्रवचनं यथा ॥ १४४ ॥ For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy