________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नौतिकल्पतरुः । येषां रेखा इमास्तिस्रः संपूर्णा दोषवर्जिताः । तेषां गोत्रधनायूंषि सम्पूर्णान्यन्यथा न तु ॥ ११८ ॥ गत्वा मिलितयोः प्रान्ते द्रव्यपित्रोश्च रेखयो।
गृहबन्धो विनिर्देश्यो गृहे भङ्गोऽथवा भवेत् ॥ ११९॥ गृहबन्धो गृह एव स्थितिः ।
एकया यवपकृत्या च श्रेष्ठो बहुधनोचितः । द्वाभ्यां च यवमालाभ्यां राजा मन्त्री धनी बुधः ॥ १२ ॥ मणिबन्धे यवश्रेण्यस्ति स चेत्सनृपो भवेत् । यदि ताः पाणिपृष्ठेऽपि ततोऽधिकफलं भवेत् ॥ १२१ ॥ त्यागाय शोणगम्भीराः सुखाय मधुपिङ्गलाः। सूक्ष्माः श्रिये भवेयुस्ताः सौभाग्याय समूलकाः ॥ १२२ ॥ छिन्नाः सपल्लवा रूक्षा विषमाः स्थानविच्युताः । विवर्णाः स्फुटिताः कृष्णा नीलाः शून्याश्च नोत्तमाः ॥ १२३ ॥ केशं सपल्लवा रेखा विच्छिन्ना वित्तसंशयम् । कदनं पुरुषाद्रव्यविनाशं विषमावहेत् ॥ १२४ ॥ मध्यमाप्राप्तरेखा या देशिनी स्याधदाधिका। प्रचुरस्तत्पितुः पक्षः[९३ब] श्रियश्च विपदोऽन्यथा ॥ १२५ ॥ अनामिकाया रेखायाः कनिष्ठा स्याधदाधिका । धनवृद्धिकरी पुंसां मातृपक्षो बहुस्तथा ॥ १२६ ॥ अधू रेखा कनिष्ठानां रेखाः स्युः गृहिणीप्रदाः । समाभिः शुभशीलास्ता विषमाभिः कुशीलिकाः ॥ १२७ ॥ अधूरेखावसानाभी रेखाभिर्मणिबन्धतः ।। स्पष्टामिर्धातरः स्पष्टेतराभिर्जामयः स्मृताः ॥ १२८ ॥ उल्लध्यन्ते च यावन्त्योऽगुल्यो जीवति रेखया।
पञ्चविशतितो ज्ञेयास्तावन्त्यः शरदो बुधैः ।। १२९॥ भन्न विशेषः।
कनिष्ठाङ्गुलिमूला च रेखा गच्छत्यनामिकाम् । अविच्छिमा च वर्षाणि त्रिंशदायुर्विनिर्दिशेत् ॥ १३०॥
For Private and Personal Use Only