SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिफल्पतरु। अथ हस्ताधिकार: प्रलम्बपीनपाणिश्च नरः सर्वगुणोत्तरः । हस्वरोमशबाहुश्च दासः प्रेष्योऽपि वा भवेत् ।। १०५॥ वामावर्तभुजश्चोक्तलक्षणैर्लक्षितोऽपि यः । पृथिवीशः स विज्ञेयो गृहे श्रीश्चास्य सुस्थिता ॥ १०६॥ यस्य मीनसमा रेखाः कर्मसिद्धिः शुभास्य तु । धनाढयश्च स विज्ञेयो बहुपुत्रो न संशयः ॥ १०७ ॥ आतपत्रं करे यस्य दण्डेन सहितं पुनः । चामरद्वितयं चापि चक्रवर्ती स जायते ॥ १०८ ॥ स्वस्तिके जनसौभाग्यं मीने सर्वत्र पूज्यता । श्रीवत्से वाञ्छिता लक्ष्मीर्गवायो दामलाञ्छितः ।। १०९॥ ध्वजवज्राङ्कुशच्छत्रं शङ्ख[९३अपमादयस्तले । पाणिपादेषु दृश्यन्ते यस्यासौ श्रीपतिः पुमान् ॥ ११० ॥ शक्तितोमरदण्डासिधनुश्चक्रगदोपमा । यस्य हस्ते भवेद्रेखा तं राजानं विनिर्दिशेत् ॥ १११ ॥ इयं च रेखोर्ध्वरेखा बोध्या । अत्र विशेषः । मणिबन्धात्समुत्थाय या रेखा चोर्ध्वगामिनी। सोध्वरेखा समाख्याता पश्चधासौ शुभदिया ॥ ११२ ॥ अङ्गुष्ठगामिनी सा चेत्राज्यलाभप्रदायिनी। तर्जनी धाविनी नूनं नृपाावाहिनी मता ॥ ११३ ॥ मध्यमां च यदा गच्छेदाचार्यत्वप्रदा मता । अनामाश्रयिणी सार्थवाहकत्वप्रबोधिनी ।। ११४ ॥ कनिष्ठगामिनी चेत्सा श्रेष्ठयं सर्वत्र कारयेत । यदेषाङ्गुलिमाक्षिप्य मध्यामारोहति ध्रुवम् ॥ ११५ ।। तदासौ निष्फला ज्ञेया महाहानिकरी परम् । मणिबन्धात्पितूरेखा करमाद्विभवायुषोः ॥ ११६॥ अखण्डया पीवरया तया शोभनमादिशेत् । द्वे रेखे यान्ति तिस्त्रोऽपि तर्जन्यङ्गुष्ठकानरे ॥ ११७ ॥ 1.- Currupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy