SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरः। अवेपनं चोलतं च हृदयं धनिनां मतम् । सिरालं रोमशं चैव दुर्विधानां प्रकीर्तितम् ॥९५ ।। इति अथ कुक्षिलक्षणम् स्थूलकुक्षिम्रही भीतिविकलश्चापि जायते । कुक्षौ गभीरी नृपतिरुत्ताने स्त्रीमुखेक्षकः ॥ ९६ ॥ समे च कुक्षौ[९२ ब]भोगी स्यानिःस्वो घटगलोदरः । सिंहोदरो नरश्चापि धनधान्यसमृद्धिमान् ॥ ९७ ॥ समुद्रः मृगोदरो नरो धन्यश्चमूरूदरसन्निभः । मण्डूकसदृशो यस्य स नरः पार्थिवो भवेत् । व्याघ्रोदरो गजपतिः श्वशृगालोदरोऽधमः ॥ ९८ ॥ इति अथ पृष्ठलक्षणम् सिंहपृष्ठो नरो यस्तु धनं तस्य विनिर्दिशेत् । कूर्मपृष्ठो भवेद्राजा धनसौभाग्यवान् भवेत् ॥ ९९ ॥ इति अथांसलक्षणम्---- अंसौ पृष्ठं द्वयमिदं दीर्घ धीधैर्यकारकम् । मालिन्यायतनं येन जायतेऽस्य न संशयः ॥ १०॥ तादृशं धीधैर्यकौशलमस्य भवेद्येन मालिन्यमेवास्य जायते । अरोमशमभग्नं च द्वयमेतत्प्रशस्यते । भग्नं सरोमनिर्मासं दारिद्रयाय भवेन्नृणाम् ॥ १०१॥ इति अथ नाभिलक्षणम् वर्तुला च गभीरा च नाभिः पुंसां प्रशस्यते । उन्नता विरला नाभिः पुंसां दुःखप्रदायिनी ॥ १०२॥ इति अथ कटिलक्षणम् विस्तीर्णा कनकस्निग्धा शुभा पुंसां कटिर्मता । निर्मासा तु कटिर्येषां ते नरा दुःखभागिनः॥ १०३ ॥ सिंहव्याघ्रसमा येषां कटिस्ते दण्डनायकाः । ऋक्षवानरतुल्या च कटिपेषां न ते शुभाः ॥ १०४ ॥ इति For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy