SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अथ मुखलक्षणम् www.kobatirth.org -थ दन्तलक्षणम् नीतिकल्पतरुः । महामुखेन दौर्भाग्यं माण्डल्याच्छाट्य संरतिः । स्त्रीमुखेनासुतो ज्ञेयो दैर्ध्य दारिद्र्यकारकम् ॥ ७२ ॥ भीरुणा पापकृत्त्वं च चतुरश्रेण धूर्तता । निम्नं च वक्त्रं विज्ञेयं तनयक्लेशकारकम् ॥ ७३ ॥ स्वेनानेन कार्पण्यं संपूर्णेन च भोगिता अभागी मूषकमुखो हयवक्त्रश्च दुर्धियः ॥ ७४ ॥ तनुता पतिता वापि यस्येक्षेत विनामयम् । लक्षणं दुष्टशङ्कायाः वक्रायाः प्रकृतेश्च तत् ॥ ७५ ॥ इति अथ स्वरलक्षणम् - स्निग्धता यापि नैविद्यं तैक्ष्ण्यं साम्यं चतुर्थकम् । लक्षणं दशनानां च शुभं तैः शुभभागिनः ॥ ७६ ॥ वक्रदन्तश्च पुरुषो हेतुव्याजप्रदूषकः । स्थूलर्जदीर्घदन्तो यः स भवेन्न्यायकोविदः ॥ ७७ ॥ द्वात्रिंशदशनो राजा भोगी स्यादेकहानितः । Acharya Shri Kailassagarsuri Gyanmandir त्रिंशद्दन्ता नरा ये ते सुखदुःखप्रभागिणः ॥ ७८ ॥ एकोनत्रिंशदशनाः पुरुषा दुःखजीविनः । अष्टाविंशतिदन्ता ये ते दुःखस्यातिभाजनम् ॥ ७९ ॥ इति उच्चत्राणिर्महासत्त्वस्तनुवाग्दुष्टचिन्तकः । समवाक् कुशली तीक्ष्णवागहंकारभाजनम् ॥ ८० ॥ वाचश्च गौरवं चिह्नमुपकारमते खलु । तत्काले हस्तसंज्ञापि तैक्ष्ण्यगाम्भीर्यसूचिका ॥ ८१ ॥ इति (९२ अ ) अथ स्कन्धलक्षणम् वृषस्कन्धो गजस्कन्धः कदलीस्कन्ध एव च । २२३ महाभोगा महाधन्याः सर्वे ते पार्थिवोपमाः ।। ८२ ॥ तन्वंसो विजयी राजा स्वधर्मनियतस्थितिः । शुभाशयश्च सुश्लिष्टस्कन्धो वीर्यबलोद्धतः ॥ ८३ ॥ इति For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy