________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
नीतिकल्पतरुः
शुकाभया च सुखितः शुष्कया चिरजीव्यपि । दीर्घया भोगवांश्चौरस्तथा कुञ्चितयानया ॥ ६२ ॥ उच्चया जनवाल्लभ्यं मृद्वया सौभाग्यपात्रता ।
च्छिन्नयागम्यगामी च प्रभक्षः सव्यनिश्रया ॥ ६३ ॥ च्छिन्नयेति छिन्नयेवेतीव शब्दोऽत्राध्याहार्यः ।
क्रोधी विवृतरोकाभ्यां सौभाग्यं पुटसाम्यतः।
अधश्चोर्ध्व स्तम्भपैन्यं काठोधी' सत्यलक्षणम् ॥ ६४ ॥ विवृतत्त्वं वैषम्येणोद्घाटितत्त्वम् । सौम्यत्वं स्वल्पमण्डलत्वम् । स्तम्भपैन्यं नासास्तम्भस्थौल्यम् ।
समया नासया दूरदीर्घदर्शितत्वमुद्यमः ।
प्रबुद्धतातितीक्ष्णत्वं सर्ववाल्लभ्यमेव च ॥ ६५ ॥ समुद्रः--
'हस्वनासा नरा ये तु धर्मशाला भवन्ति ते ।
हस्तिनासा नरा ये तु सर्वे ते जनवल्लभाः' ॥६६॥ इति अथ ग्रीवालक्षणम्--
हस्वनीवच्छलान्वेषी हेतौ स्वल्पेऽपि सद्भयः।। शू[९१ब]रः स्यान्महिषग्रीवो वृषग्रीवस्तु मृत्युभाक् ॥ ६७ ॥ दीनचित्तस्तनुग्रीवोऽल्पबुद्धिरपि जायते । स्थूलग्रीवस्तु पहिलो बद्धभुक्त्वापि' जायते ॥ ६८॥ कम्बुग्रीवान्प्रशंसन्ति कुम्भग्रीवी च पार्थिवः। दीर्घग्रीवात्र शंसन्ति बकग्रीवांश्च पण्डिताः ॥ ६९ ॥ प्रलम्बकण्ठोवद्...द्भिः स्वश्चिपिटकन्धरः ।
सिरावनद्धग्रीवो वा साम्यं धीमत्वलक्षणम् ॥ ७० ॥ इति अथास्यलक्षणम्
समसंवृतवक्त्रेण राजा भवति मानवः । विपरीतमतो यत्स्यात्तेन क्लेशयुजो नराः॥ ७१ ॥ इति
1
Currupt.
For Private and Personal Use Only