________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मीतिकल्पतरुः।
यस्याभितोक्षिकूटस्थतिलकाः' पीतपीतकाः।
दृश्यन्ते कुनयी मूर्धवाली योऽपि नरो ध्रुवम् ॥५३ ॥ प्रौढाक्षाः स्मितभरित्रनेत्राः । कुनयी परघातककुत्सितनयवान् । , समाक्षः पुरुषो यस्तु श्रुतिशाल्युपकारधीः ।
प्रबुद्धः सत्यभाषी च शान्तचित्तोऽप्यसौ प्रवम् ॥ ५४॥ समाक्ष इति विजातीयपशुपक्ष्यादिसादृश्याननुगामिनेत्र इति । अथ ओष्ठलक्षणम्--
बिम्बोपमैरवक्रैश्च नरा ओष्ठेमहाभुजाः ।
तन्वोष्ठा दुर्विधा रूक्षा धराधनविवर्जिताः ॥ ५५ ॥ दुर्विधा दरिद्राः।
मध्यनिम्नाधरो यः स्यात्सुभगोऽसौ न संशयः । . स्थूलौष्ठः स्फुटितौष्ठश्च नरो (श्चापि दुःखितः ।। ५६ ॥ (९१) रक्तौष्ठो यो नरस्तस्य पुण्यवृद्धिः प्रजायते ।
परोपकारनिरतो मितसत्येष्टभाष्यपि ॥ ५७ ।। इति अथ कर्णलक्षणम्--
हस्वकर्णो महाभोगी कृपणो दीर्घकर्ण्यपि । धनी क्रूरः सिरानद्धकर्णश्च सततं सुखी ॥ ५८ ।। रोमशाभ्यां च दीर्घायुालम्बाभ्यां तु सौख्यभाक् ।
निर्मासाभ्यां पापमृत्यू विशीर्णाभ्यां सुभोगिता ॥ ५९॥ हस्वकर्णो भोगी भवति किन्तु कृपणः । दीर्घकर्णो धनी न तु भोगी। व्यालम्बाभ्यां मांसोन्नद्धाभ्यां, विशीर्णाभ्यामितस्ततः प्रसृताभ्याम् ।
समाभ्यां चैव कर्णाभ्यां समोचितगुणो मतः ।
विशेषाकारराहित्यं साम्यं नाम प्रकीर्तितम् ॥ ६०॥ इति अथ नासालक्षणम्
तन्वा नसा मृदुश्चाग्रनतया धृतिमान्धनी। स्थूलया शीलरहितः कामुको जनहार्दभाक् ॥ ६१॥
1 Corrupt.
For Private and Personal Use Only